________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
भट्टाकलंकप्रणीतं कारविषयत्वेन मिथ्या स्वरूपालंबनत्वेनामिथ्या । स्वरूपापेक्षयाऽदृश्यं ग्राह्याकारापेक्षया दृश्यं । ग्राह्यग्राहकाकारापेक्षया भेदः संवेदनापेक्षया चाभेद इति । एवं मिथ्यामिथ्यात्मकं दृश्यादृश्यात्मकं भेदाभेदात्मकं च चित्तं ज्ञानं स्वतः स्वरूपेण साधयति ज्ञापयति । किं तत्त्वं जीवाजीवादि । किंविशिष्टं सदसदात्म सत्सत्त्वं असदसत्त्वं ते आत्मानौ स्वभावौ यस्य तत्तथोक्तं । ननु द्रव्यादिसदात्मकं प्रागभावादि चासदात्मकं भिन्नमेव तत्त्वं द्वयमेव सिद्धमिति । तयवच्छेदार्थमाह- एकमभिन्नं प्रमाणादेशादेकमपि द्रव्यपर्याया
र्थादेशात्सदसदात्मकं जीवादि तत्त्वं प्रसिद्धं प्रमाणबलाचित्रज्ञानवदित्यर्थः । यतश्चित्रज्ञानमेकमपि मिथ्येतराद्यनेकात्मकमविरुद्धं तद्वज्जीवाद्यपि सदसदात्मकमविरुद्धमुपलंभात् । एवमेकानेकात्मकं नित्यानित्यात्मकं च वस्तु न्यायबलादनुमंतव्यमुत्पादव्ययध्रौव्यपीरणतिलक्षणार्थक्रियान्यथानुपपत्तेरिति भावः । अतो विरोधाभावाद्वैयधिकरण्यमपि निराकृतमेव । एकाधिकरणत्वेन सदसदादिधर्माणामुपलब्धः। ननु येन रूपेण सत्त्वं तेन सत्त्वासत्त्वयोरनेकांतात्प्रसंगः संकर इति चेन्न । अर्पणाभेदात् । स्वरूपाद्यर्पणया सत्त्वस्यैव पररूपाद्यर्पणया चासत्त्वस्यैव विधानात् । प्रमाणापणयैवोभयात्मकत्वप्रतिपादनात् । एतेन व्यतिरेकोऽप्यनेकांते निरस्तः । स्वद्रव्यादिविवक्षयाऽसत्त्वस्याप्रतिपादनात् ॥ स्या
For Private And Personal Use Only