SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. २५ नैव विरुध्येत प्रत्यक्षादिना न बाध्येत । का विक्रिया विशेषेण कालभेदेन क्रिया पूर्वोत्तराकारपरिहारस्थितिलक्षणपरिणतिः । न केवलं विक्रिया, अपित्वविक्रिया वा युगपदनेकाकारव्याप्तिलक्षणाऽपि नैव विरुध्येत । क अभेदेऽपि कथंचित् द्रव्यार्थिकनयापेक्षया विवक्षितेऽभेदेऽन्वये ऽनुगताकारेऽपि। तदपेक्षया वस्तुधर्माणामव्यतिरेकात् यदेव हि मृदे - कद्रव्यं पिण्डाद्याकारपरिणतं तदेव तमाकारं परिहरत् घटाकारमुत्तरमास्कंदत्प्रतीयते । न च प्रतीयमाने विरोधः शक्यः कल्पयितुं तस्यानुपलम्भसाध्यत्वात् । अपिशब्दाद्भेदेऽपीत्याक्षिप्यते । कथंचित् पर्यायार्थिकनय विवक्षया भेदे व्यतिरेकेऽपि द्रव्यपर्याययोरर्पिते क्रमयौगपद्ये न विरुध्येते यतोऽर्थकिया विरुध्येत । पूर्वाकारनिवृत्तावेवोत्तरपर्यायप्रादुर्भावात् । अन्यथा संकरादिदोषप्रसंगात् । तदेवं कथंचिद्भेदाभेदात्मकं नित्यानित्यात्मकं सदसदात्मकं च तत्त्वमभ्युपगंतव्यम् । तत्रैवार्थक्रियासंभवनादन्यथा विरोधात् ॥ एतदेवाने कान्तात्मकत्वं वस्तुनः सौगताभिप्रेतचित्रज्ञानहष्टान्तबलेन समर्थयते - मिध्येतरात्मकं दृश्यादृश्यभेदेतरात्मकं ॥ ४॥ चित्तं सदसदात्मकं तत्त्वं साधयति स्वतः ॥ विज्ञानवादिनो बौद्धा एवमभिमन्यते ज्ञानं बहिरा - For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy