________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीत त्वात्तदपेक्षं क्रमेण कार्यकारित्वमप्यवास्तवं स्यात् । तृतीयपक्षे कथञ्चिन्नित्यानित्यात्मकत्वं वस्तुन आयातम् । तन्न क्रमेण कार्यकारित्वं क्षणिकस्य । नापि यौगपछेन विभ्रमप्रसङ्गात् । कारणकाल एव कार्यस्योत्पतेस्तत्कार्यस्यापि तदैवोत्पत्तेरिति । ननु मा भून्नित्यक्षणिकपक्षयोरर्थक्रिया का नो हानिरित्याशंक्याह- सेत्यादि- साऽर्थक्रिया ज्ञप्त्युत्पत्तिलक्षणा भावानां सद्भूतानामर्थानां । लक्षणतया लक्ष्यते ज्ञायते अनेनेति लक्षणं लिङ्गमित्यर्थः । तस्य भावो लक्षणता तया लिङ्गत्वेन मता सकलास्तिकैरभ्युपगता व्यापकत्वात् । व्यापकानुपलम्भश्च नित्यक्षणिकपक्षयोर्व्याप्यस्य सत्त्वस्य निषेधं साधयतीति भावः । तथैवाख्यानात् । सत्त्वं हि प्रत्यक्षसिद्धं बहिरन्तश्च स्वव्यापिकामर्थक्रियां गमयति । साऽपि ध्रौव्योत्पादव्ययपरिणतिलक्षणा क्रमयोगपद्ये स्वव्यापके ज्ञापयति । ते च स्वव्यापकमनेकान्तं साधयतः । तद्विरुद्धं च सर्वथैकान्तं निषेधयत इति भावः। तत उत्पादव्ययध्रौव्यपरिणामवत एवार्थक्रियासम्भवाद्रव्यपर्यायात्मा प्रमाणविषय इति सुस्थितम् ॥
ननु कथमेकस्यानेकाकारव्यापित्वमेकार्थक्रियाकारित्वं च अनेकत्वे वा कथमेकत्वं विरोधात् इति प्रत्यवस्थामवहस्तयन् अनेकान्ते विरोधाभावं दर्शयतिनाभेदेऽपि विरुध्येत विक्रियाऽविक्रियैव वा ॥
For Private And Personal Use Only