________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
२३
तावाश्रित्येत्यर्थः । कयोः नित्यक्षणिकपक्षयोः नित्यपक्षः सर्वथा कौटस्थ्यपरिग्रहः । क्षणिकपक्षस्तु सर्वथाऽनित्याभिनिवेशः तयोर्द्वयोरपि । तथाहि न खलु कूटस्थनित्यस्य क्रमेण कार्यकरणमुपपन्नं सर्वकार्याणामेककार्योत्पादनकाले एव तस्यो - त्पादनसामर्थ्यात् सहकारिसान्निध्यस्याकिञ्चित्करत्वात् । तदा तत्करणसामर्थ्याभावे नित्यत्वहानिप्रसङ्गात् । असमर्थस्वभावपरित्यागेन समर्थस्वभावोपादानेन च परिणममानस्यैवानित्यत्वात् । नापि यौगपद्येन, पूर्वसमये कृतकृत्यत्वेन तस्योत्तर - समयेष्वर्थक्रियाविरहात् असत्त्वप्रसंगात् स्वभावनानात्वप्रसङ्गाच्च । न ह्येकेनैव स्वभावेनानेककार्यकरणं युक्तमतिप्रसङ्गात् कार्याभेदप्रसङ्गाच्च । सहकारिवैचित्र्यात्कार्यवैचित्र्यमित्यप्ययुक्तं स्वभावमभिन्दतां सहकारित्वानुपपत्तेः । ततः क्रमयैौगपद्य - विरहादर्थक्रियाविरहः सिद्ध एव सर्वथानित्यपक्षे इति तस्यासत्त्वमेवेत्यर्थः । व्यापकानुपलम्भस्य व्याप्याभावं प्रति गमकत्वात् । क्षणिकस्यापि न क्रमेण कार्यकारित्वं देशकालक्रमस्य तत्रासम्भवात् ॥ यो यत्रैव स तत्रैव यो यदैव तदैव सः ।। न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ॥ १ ॥ इति वचनात् ॥ अन्यथा क्षणिकत्वविरोधात् । सन्तानापेक्षया क्रमोऽस्तीति चेन्न । तस्यावस्तुत्वात् । किञ्च संतान एव कार्यकारी स्वलक्षणं वा स्यात् ? आद्यपक्षे तस्यैव वस्तुत्वात् किं क्षणिकवस्तुकल्पनया । द्वितीयपक्षे तु सन्तानस्यावस्तु
For Private And Personal Use Only