SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ भट्टाकलंकप्रणीतं वचनात् । अद्वैतशब्दः स्वाभिधेयप्रत्यनीकाविनाभावी नञ्पूखिण्डपदत्वादगौरित्यादिपदवदित्याद्यनुमानबाधितत्वाच्च । कर्मफलपरलोकादिभेदविरोधाच्च । किञ्च द्वैतसिद्धिः साधनात्तद्विना वा? यदि साधनात् द्वैतप्रसङ्गः साध्यसाधनयो देन प्रवृत्तेः । तद्विनेति चेत् वाङ्मात्रेण सर्वं सर्वस्यापि यथेष्टं सिध्यति । ततो नाद्वैतैकान्ते प्रमेयत्वं प्रमाणविरोधात् । ननु सांख्यपरिकल्पितेऽभेदैकान्ते प्रकृत्यादितत्त्वस्य प्रमेयत्वमुपपन्नं सर्वत्राविर्भावतिरोभाववशात्प्रधानपरिणामसम्भवादिति चेत्तदप्यसङ्गतम् । अभेदैकान्ते खल्वाविर्भावतिरोभावयोरेवासम्भवात् कौतस्कुतः परिणामः । प्रकृतिपुरुषयोरपि भेदाभावप्रसङ्गात् । अर्थक्रियानुपपत्तेश्च । नाभेदैकान्तेऽर्थक्रिया सम्भवति क्रमाभावात् । तदेवं भेदैकान्ततदभेदैकान्तेऽपि प्रमेयत्वस्यासम्भवात्तत्त्वतो द्रव्यपर्यायात्मकमेव चेतनाचेतनात्मकं प्रमेयमिति सुस्थितम् ॥ अथैकान्तेऽर्थक्रियाविरोधितामेव सुलक्षणं प्ररूपयतिअर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः ॥ क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता १ अर्थस्य कार्यस्य क्रिया करणं निष्पत्तिर्न युज्येत न युक्तिमधिरोहेत् । केषां भावानां चेतनाचेतनपदार्थानां । काभ्यां क्रमाक्रमाभ्यां क्रमो देशकालव्याप्तिः अक्रमश्च योगपद्यं ताभ्यां For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy