SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्.. प्रेत्यभावफलदुःखापवर्गभेदात् द्वादशविधस्य प्रमेयत्वमुपपद्यत इति चेन्न । अत्रापि भेदैकान्ते सम्बन्धानुपपत्तेः । इन्द्रियबुद्धिमनसामर्थोपलब्धिसाधनत्वेन प्रमेयत्वानुपपत्तेश्च । आत्मनश्च प्रमातृत्वात् , प्रमाता प्रमाणं प्रमेयं प्रमितिरित्यन्त:दोपगमात् । संशयादीनामप्रयत्वे च व्यवस्थानुपपत्तेः । भेदैकान्ते सङ्ग्रहविरोधात् । प्रत्यक्षादीनामनन्तर्भावाच्च । तन्न षोडशपदार्थव्यवस्था सम्भवति । ___तत्त्वचतुष्टयं प्रमेयं चार्वाकपरिकल्पितमत्यन्तभिन्नं युज्यत इति चेन्न । जीवतत्त्वस्य पञ्चमस्य सद्भावात् । तेषां परस्परतोऽत्यन्तभेदासम्भवाच्च । तत्त्वद्वयव्यवस्थानात् । पृथिव्यादिविकार एव चैतन्यं न तत्वान्तरमिति चेत् महदद्भुतमिदं यदत्यन्तविलक्षणयोर्भूतचेतनयोरभेदः सलक्षणानां च पृथिव्यादीनां भेद इति । संविल्लक्षणं हि चैतन्यं स्पर्शादिलक्षणानि भूतानीति भेदस्य स्पर्शादिमत्त्वेन तेषामभेदस्य च प्रतीतेः । नन्वस्तु भेदैकान्तेऽयं दोषः । अभेदैकान्ते द्रव्यपर्याययोः प्रमेयत्वं युक्तं भेदानामविद्याकल्पितत्वात् । अनवस्थानाच्च । न खलु भेदा अनन्ताः प्रमीयन्तेऽशक्यत्वात् । प्रत्यक्षेण हि निर्विशेषं प्रमीयते । कल्पना पुनस्तत्र भेदान् कल्पयति ततोऽद्वैतमेव तत्त्वमिति ब्रह्माद्वैतिनो ज्ञानाद्वैतिनश्च मन्यन्ते । तदपि प्रमाणबाधितमेव । क्रियाकारकभेदाभावेऽर्थक्रियानुपपत्तेः । असत्त्वात् यदेवार्थक्रियाकारि तदेव परमार्थसदिति For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy