SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० भट्टाकलंकप्रणीतं रूपाः । तत्र द्रव्यं नवविधं । गुणाश्चतुर्विंशतिः । कर्माणि पञ्च । सामान्यं द्विधा । विशेषा अनेके । समवाय एक इति । अभावरूपास्तु चत्वारः प्रागभावप्रध्वंसाभावेतरेतराभावात्यन्ताभावा इति । सोऽयं सदसद्वर्गः परस्परमत्यन्तभिन्नः प्रमाणार्थ, इति चेन्न । अत्यन्तभेदे सम्बन्धानुपपत्तेः । समवायोऽस्तीति चेन्न तस्य सर्वसाधारण्येनानियामकत्वात् । यथैव हि ज्ञानादीनामात्मनि समवायस्तथा पृथिव्यादावपि तत्प्रसङ्गात् । किं च द्रव्याद्भिन्नानां गुणानामद्रव्यत्ववत् सत्तासामान्याद्भिन्नानां द्रव्यादीनामप्यसत्त्वं किं न स्यात् विशेषाभावात् । द्रव्यमनुगतस्वरूपं चेत्सामान्यमेव । व्यावृत्तस्वरूपत्वे तु विशेष एव । एवं गुणादिष्वपि योज्यमिति । पदार्थद्वैतप्रसङ्गश्च । नीरूपः प्रमाणार्थोऽनुपपन्न एव । अन्यथा केशोण्डुकज्ञानादीनां निर्विषयाणामपि प्रामाण्यप्रसङ्गात् । अभावप्रमाणभावो विषयोऽस्तीति चेत् केशोण्डुकज्ञानेऽपि केशोण्डुकमविशेषात् । तत्र केशोण्डुकस्य कल्पितत्वान्मिथ्यात्वमिति चेदभावस्यापि नीरूपत्वान्मिथ्यात्वं किं न स्यात् । अतो दुराग्रहग्रहं परित्यज्य भावाभावात्मक एवं कथञ्चित्ममाणार्थोऽनुमन्तव्यः । तन्न वैशेषिकमतं सुमतं दृष्टेष्टविरोधात् । अथ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासंच्छलजातिनिग्रहस्थानेषु षोडशपदार्थेषु नैयायिकमतेषु आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोष For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy