________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. यश्च व्यावृत्ताकारस्तावात्मानौ खभावौ धर्मों यस्य स तथोक्तः । कथं तत्त्वतः परमार्थतः न कल्पनयेत्यर्थः । कुतस्तत्कस्माद्धेतोः अर्थत्वान्यथानुपपत्तेरित्यर्थः । तथाहि प्रमाणार्थो जीवादिव्यपर्यायात्मा प्रमाणार्थत्वात् । यो द्रव्यपर्यायात्मा न भवति स न प्रमाणार्थो यथा वन्ध्यास्तनन्धयः । प्रमाणार्थश्च जीवादिस्तस्मात् द्रव्यपर्यायात्मेति । न खल्वेकान्ततो द्रव्यमेव पर्याय एव परस्परनिरपेक्षं तद्वयमेव वाऽर्थक्रियासमर्थं यतः प्रमाणविषयः स्यात् । तत्तदेकान्ते क्रमयोगपद्यविरहेणार्थक्रियानुपपत्तेः । तयोरनेकान्तेन व्याप्तत्वात्तदभाव्यानुपपत्तेः । ताभ्यां चार्थक्रियाया व्याप्यत्वात् । तया च प्रमेयस्य व्याप्यत्वात् । व्यापकानुपलम्भः परम्परयाऽपि व्याप्याभावं साधयत्येव । व्याप्योपलब्धि; व्यापकविधि साधयति किं नश्चिन्तया । नन्वर्थक्रिया प्रमेयस्य कथं व्यापिकेति चेन्न । उत्पादव्ययध्रौव्यपरिणतिलक्षणार्थक्रियायामेव बहिरन्तर्वाऽर्थे प्रमाणप्रवृत्तेः । अन्यथा गृहीतग्राहित्वेन निर्विषयत्वेन च ज्ञानानामप्रामाण्यात् असत्त्वाच्च । न खलु तादृगर्थक्रियां विना सत्त्वं खनेऽप्युपलब्धम् । न ह्यसत्प्रमेयमतिप्रसङ्गात् । न वनेकान्तः क्रमयोगपद्ययोः कथं व्यापक इति चेन्न । पर्यायापेक्षया देशकालक्रमस्य द्रव्यापेक्षया च योगपद्यस्य सम्भवात् । ननु वैशेषिकमते भेदैकान्ते द्रव्यपर्याययोः प्रमेयत्वमविरुद्धमेव । तथाहि द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट् पदार्था भाव
For Private And Personal Use Only