SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ भट्टाकलंकप्रणीतं राव्याप्तिस्थितिलक्षणपरिणामेन परिणममानं व्यतिरेकज्ञानबलात्प्रतिपर्यायं भिन्नमनुभूयते इति प्रमाणफलव्यवहारोपपत्तेः । परम्पराफलं तु हानादिकं सर्वत्र साधारणमेव । तच्च प्रमाणत्वं ज्ञानस्याभ्यस्तविषये खतः सिध्येत् तत्र ज्ञानान्तरानपेक्षणात् । अनभ्यस्तविषये तु परतः प्रमाणान्तरतः सिध्द्येत् तत्रानुमानाद्यपेक्षणात् । न सर्वथा अतिप्रसङ्गादनवस्थानाच्च । ततो युक्तमुक्तं सांव्यवहारिकप्रत्यक्षमवग्रहादीति ॥ अकलङ्कशशा.र्यद्विशदं प्रतिभासितम् ॥ प्रभाबलाददः सर्व सौरी वृत्तिय॑नक्ति वः ॥१॥ इत्यभयचन्द्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणसज्ञायां प्रत्यक्षपरिच्छेदः प्रथमः ॥ अथ प्रमाणस्य विषयविप्रतिपत्तिनिराकरणार्थमिदमाहतद्रव्यपर्यायात्मार्थो बहिरन्तश्च तत्त्वतः॥७॥ - प्रमाणमित्यनुवर्तमानमत्र षष्ठयन्तमभिसम्बध्यते । अर्थवशाद्विभक्तिपरिणाम इति न्यायात् । अर्यते गम्यते ज्ञायते इत्यर्थो विषयो भवति । कस्य प्रमाणस्य । कः बहिरचेतनो घटादिः । न केवलं बहिः अपि तु अन्तश्च अ.तश्चेतन आत्मा च प्रमाणस्य खार्थव्यवसायात्मकत्वेन प्रतिपादितत्वात् । किंविशिष्टः द्रव्यपर्यायात्मा द्रव्यमन्विताकारः पर्या For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy