________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
भट्टाकलंकप्रणीतं राव्याप्तिस्थितिलक्षणपरिणामेन परिणममानं व्यतिरेकज्ञानबलात्प्रतिपर्यायं भिन्नमनुभूयते इति प्रमाणफलव्यवहारोपपत्तेः । परम्पराफलं तु हानादिकं सर्वत्र साधारणमेव । तच्च प्रमाणत्वं ज्ञानस्याभ्यस्तविषये खतः सिध्येत् तत्र ज्ञानान्तरानपेक्षणात् । अनभ्यस्तविषये तु परतः प्रमाणान्तरतः सिध्द्येत् तत्रानुमानाद्यपेक्षणात् । न सर्वथा अतिप्रसङ्गादनवस्थानाच्च । ततो युक्तमुक्तं सांव्यवहारिकप्रत्यक्षमवग्रहादीति ॥
अकलङ्कशशा.र्यद्विशदं प्रतिभासितम् ॥ प्रभाबलाददः सर्व सौरी वृत्तिय॑नक्ति वः ॥१॥ इत्यभयचन्द्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणसज्ञायां प्रत्यक्षपरिच्छेदः प्रथमः ॥
अथ प्रमाणस्य विषयविप्रतिपत्तिनिराकरणार्थमिदमाहतद्रव्यपर्यायात्मार्थो बहिरन्तश्च तत्त्वतः॥७॥ - प्रमाणमित्यनुवर्तमानमत्र षष्ठयन्तमभिसम्बध्यते । अर्थवशाद्विभक्तिपरिणाम इति न्यायात् । अर्यते गम्यते ज्ञायते इत्यर्थो विषयो भवति । कस्य प्रमाणस्य । कः बहिरचेतनो घटादिः । न केवलं बहिः अपि तु अन्तश्च अ.तश्चेतन आत्मा च प्रमाणस्य खार्थव्यवसायात्मकत्वेन प्रतिपादितत्वात् । किंविशिष्टः द्रव्यपर्यायात्मा द्रव्यमन्विताकारः पर्या
For Private And Personal Use Only