________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
१७
ध्रुवमवस्थितं इदं च ज्ञानविशेषणम् । अभ्रवमनवस्थितं यथा भिन्नभाजनजलम् । अथवा ध्रुवः स्थिरः पर्वतादिः । अध्रुवः अस्थिरो विद्युदादिः । एतद्विषयत्वेनावग्रहादयो विशिष्यन्ते । एवं व्यञ्जनेऽपि योज्याः । तदेतदुभयसङ्कलने षट्त्रिंशदुत्तरा त्रिशती मतिज्ञानस्य भेदा भवन्ति । ननु बहिरर्थावलम्बनत्वेनैव ज्ञानस्य तद्भेदसम्भवात्कथं स्वव्यवसायात्मकमिति चेदुच्यते । स्वसंविदामिति । अत्रापिशब्दस्याध्याहारः कर्तव्यः । न केवलमर्थसंविदामेते भेदाः किन्तु स्वसंविदामपि अवग्रहादयो भवन्तीत्यर्थः । स्वस्य ज्ञानस्वरूपस्य संविद्वेदनं ज्ञानान्तरानपेक्षमनुभवनं येषां ते स्वसंविद इति व्याख्यानात् । न हि ज्ञानमस्वसंवेदनमर्थसंवेदनविरोधप्रसङ्गात् । स्वरूपस्य ज्ञानान्तरवेद्यत्वेऽनवस्थाप्रसङ्गात् । ततो ज्ञानं परोक्षमेवेति वदन्मीमांसकः, ज्ञानान्तरप्रत्यक्षमिति यौगाः, चेतनमिति सांख्यः, प्राथव्यादिपरिणाम इति चार्वाकश्च प्रतिक्षिप्ताः । तन्मतस्य प्रत्यक्षादिप्रमाणबाधितत्वात् । नन्ववग्रहस्य प्रमाणत्वे फलाभावः प्रसज्यते इत्याशंक्याह - पूर्वपूर्वप्रमाणत्वं स्यात्, वीप्सायां द्विर्वचनम् । पूर्वपूर्वस्यावग्रहादेर्यथा प्रमाणत्वं स्यात्तथोत्तरोतर मीहादिकं साक्षात्फलं स्यादिति प्रमाणफलयोः कथञ्चिदभेदोपपत्तेः । सर्वथा तयोर्भेदेऽभेदे वाऽर्थक्रियानुपपत्तेः । विवक्षातः कारकप्रवृत्तिरिति न्यायात् । यदेव चिद्द्रव्यमनुगता - कारमखण्डमन्वयज्ञानबलात्प्रसिद्धं तदेव पूर्वोत्तराकारपरिहा
For Private And Personal Use Only