________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
भट्टाकलंकप्रणीतं प्रकारं भवतीत्यर्थः । एतच्च प्रतीन्द्रियमवबोद्धव्यम् ॥
अथ तस्य भेदान् प्रमाणफलव्यवहारं च निरूपयतिबह्वाधवग्रहाद्यष्टचत्वारिंशत्स्वसंविदाम् ॥ पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम् ॥ ६ ॥
बहुरादिर्येषां ते बह्वादयोऽर्थविशेषाः । बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाः सप्रतिपक्षा द्वादश । तेषां प्रत्येकमवग्रहादयश्चत्वारोऽर्थग्रहविशेषाः तेषामष्टचत्वारिंशत् । बह्वादिभिरवग्रहांदयो गुणिता अष्टचत्वारिंशद्भेदा भवन्तीत्यर्थः । प्रतीन्द्रियमेतावद्भेदसम्भवात् षड्भिर्गुणिता अर्थ प्रत्यष्टाशीत्युत्तरा द्विशती प्रतिपत्तव्या । व्यञ्जनं प्रति पुनरवग्रह एव । चक्षुर्मनोरहितैरिन्द्रियैर्बह्वादीनामष्टचत्वारिंशद्भेदास्तत्रेहादेरसम्भवात् । अव्यक्तस्य शब्दादिसमूहस्य व्यञ्जनत्वात् । तत्र बह्वादयो मनाङ्निरूप्यन्ते । बहुरनेकोऽर्थः यथा बहुजनः । तत्प्रतिपक्ष एको जनः । बहुविधो नानाजातिभिन्नः यथा ब्राह्मणक्षत्रियवैश्यशूद्रा इति । तत्प्रतिपक्ष एकविधः यथा ब्राह्मणा इति । क्षिप्रं झटिति इदं ज्ञानस्य विशेषणम् । यथा एकसंस्थया ग्रहणम् । तद्विपक्षः शनैर्ग्रहणम् । अनिःसृतः संवृतो यथा जले पुष्करशेषमग्नो हस्ती। निस्सृतो विवृतः यथा सर्वोन्मनो हस्ती । अनुक्तोऽभिप्रायगतो यथाऽन्यानयने शरावादिः । उक्तः प्रतिपादितः यथा स्फुटमानयेति।
For Private And Personal Use Only