________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
लघीयस्त्रयम्. लब्धिः । अर्थग्रहणव्यापार उपयोगः । निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रियमिति वचनात् । ननु कथं मनस इन्द्रियत्वमिति चेदन्तःकरणत्वेन तदविरोधात् । अर्थो विषयस्तयोर्योगः सन्निपातो योग्यदेशावस्थानं । तस्मिन् सति उत्पद्यते इत्यर्थः । नन्वक्षवदर्थोऽपि तत्कारणं प्रसक्तमिति चेन्न तव्यापारानुपलब्धेः । अन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवत् । न हि नयनादिव्यापारवदर्थव्यापारो ज्ञानोत्पत्तौ कारणमुपलम्यते तस्यौदासीन्यात् । ततः पुनः स एवावग्रहो भवति । किंविशिष्टः अर्थाकारविकल्पधीः अर्थो विषयस्तस्याकारो वर्णसंस्थानादिविशेषः तस्य विकल्पधीः निश्चयात्मकं ज्ञानं । अयमर्थः दर्शनमेव ज्ञानावरणवीर्यान्तरायक्षयोपशमविजृम्भितमर्थविशेषग्रहणलक्षणावग्रहरूपतया परिणमत इति यथा आकाशे इदं वस्त्विति । ततः स एवावग्रहः पुनरीहा भवति । किंरूपा विशेषाकांक्षा विशेषस्य बलाकात्वादेराकांक्षा भवितव्यता प्रत्ययरूपा यथा बलाकया भवितव्यमिति । ततः सैवेहाऽवायो भवति । किंलक्षणो विनिश्चयः आकांक्षितविशेषनिर्णय इत्यर्थः । यथा बलाकैवेयमिति । ततः स एवावायो धारणा भवति। किंलक्षणा स्मृतिहेतुः स्मृतेरतीतार्थावमर्शस्य हेतुः कारणम् । इदमेव हि संस्कारस्य लक्षणं यत्कालान्तरेऽप्यविस्मरणमिति । तदेतन्मतिज्ञानं सांव्यवहारिकप्रत्यक्षमवग्रहादिभेदाच्चतुर्विधं चतुः
For Private And Personal Use Only