________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
भट्टाकलंकप्रणीतं सोपस्कारत्वात्सूत्राणामेवं व्याख्यायते । उत्पद्यते । कः सत्तालोकः सत्तायाः समस्तार्थसाधारणस्य सत्त्वसामान्यस्य आलोको निर्विकल्पकग्रहणं दर्शनमिति यावत् । सामान्यग्रहणं दर्शनमित्याम्नायात् । ननु मतिज्ञानप्रकरणे किमिति दर्शनमप्रकृतमुपक्रान्तमिति चेन्न । ज्ञानात्पूर्वपरिणामप्रदर्शनार्थत्वात् । दर्शनपूर्वं ज्ञानं छद्मस्थानामिति वचनात् । ननु स्वरूपग्रहणं दर्शन मिति राद्धान्तेन कथं न विरोध इति चेन्न । अभिप्रायभेदात् । परविप्रतिपत्तिनिरासार्थ हि न्यायशास्त्रं ततस्तदभ्युपगतस्य निर्विकल्पकदर्शनस्य प्रामाण्यविघातार्थं स्याद्वादिभिः सामान्यग्रहणमित्याख्यायते । स्वरूपग्रहणावस्थायां छद्मस्थानां बहिरर्थविशेषग्रहणाभावात् । प्रामाण्यं च बहिरर्थापेक्षयैव विचार्यते । व्यवहारोपयोगात् । न खलु प्रदीपः स्वरूपप्रकाशनाय व्यवहारिभिरन्विष्यते । ततो बहिरर्थविशेषव्यवहारानुपयोगाद्दर्शनस्य । ज्ञानमेव प्रमाणं तदुपयोगात् । विकल्पास्मकत्वात्तस्य । तत्त्वतस्तु स्वरूपग्रहणमेव दर्शनं केवलिनां तयोर्युगपत्प्रवृत्तेः । अन्यथा ज्ञानस्य सामान्यविशेषात्मकवस्तुविषयत्वाभावप्रसङ्गात् । कस्मात्सत्तालोक उत्पद्यत इत्याहअक्षार्थयोगे-- अक्षाणीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पञ्च । मनश्च षष्ठं । तानि च द्विविधानि द्रव्यभावभेदात् । तत्र पुद्गलपरिणामो द्रव्येन्द्रियं निर्वृत्त्युपकरणलक्षणम् । भावेन्द्रियं जीवपरिणामो लब्ध्युपयोगभेदम् । तत्रार्थग्रहणशक्ति
For Private And Personal Use Only