SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. १३ तन्मतमिष्टं स्याद्वादिभिः । किं वैशा विशदस्य भावो वैशद्यं । कस्याः बुद्धेः ज्ञानस्य । किं तत् यद्विशेषप्रतिभासनं विशेषस्य वर्णसंस्थानाद्याकारस्य प्रतिभासनमवबोधनं । विशेषेण वा प्रतीत्यन्तराव्यवधानेन प्रतिभासनं । कथं अनुमाद्यतिरेकेण अनुमानमादिर्येषामागमादीनां तेभ्योऽतिरेक आधिक्यं तदनादरणं तेन । न खल्वनुमानादिसाधारणं विशेषप्रतिभासनं प्रत्यक्षस्य प्रतीतं यतस्तेषामपि वैशा सम्भवेत् । अत उक्तलक्षणाद्वैशद्यात्परमन्यद्ध्यवहितप्रतिभासनमवैशद्यमित्युच्यते । तस्यानुमानादिषु परोक्षभेदेषु व्यवस्थितत्वात् । एवं ज्ञानस्य बाह्यार्थापेक्षयैव वैशद्यावैशये देवैः प्रणीते । स्वरूपापेक्षया तु सकलमपि ज्ञानं विशदमेव स्वसंवेदने ज्ञानान्तराव्यवधानात् । तस्य ज्ञानस्य प्रामाण्याप्रामाण्ये अपि बहिरर्थापेक्षयैव न खरूपापेक्षया । तत्र सर्वसंवेदनस्य प्रामाण्याभावात् । भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः ॥ बहिःप्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥ इति वचनात् ॥ अथ सांव्यवहारिकप्रत्यक्षस्य कारणभेदनिर्णयार्थमिदमाहअक्षार्थयोगे सत्तालोकोऽर्थाकारविकल्पधीः ॥ अवग्रहे विशेषाकांक्षेहाऽवायो विनिश्चयः॥५॥ धारणा स्मृतिहेतुस्तन्मतिज्ञानं चतुर्विधम् ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy