________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
भट्टाकलंकप्रणीतं परोक्षमिति हि मुख्यवचनं ततो नायमपसिद्धान्तः । इदानीं परोक्षलक्षणमाह- परोक्षं शेषमिति । शेषमवितथं ज्ञानं स्मृतिप्रत्यभिज्ञानतर्वानुमानागमभेदभिन्नं परोक्षं प्रमाणमित्याख्यायते । तस्य परप्रत्ययापेक्षया प्रवृत्तेः प्रत्यक्षादिनिमित्तत्वात्स्मृत्यादेः । अत्र प्रमाणे इत्यनेनाभिधेयवत्त्वमस्य शास्त्रस्य सूचितं भवति । अनेन प्रमाणनयनिक्षेपाणामभिधानात्तच्छून्यस्यैव वन्ध्यासुतो यातीत्यादिवदनादरणीयत्वात् । सम्बन्धश्च वाच्यवाचकभावलक्षणः सुघट एव । शास्त्रतदभिधेययोस्तत्सद्भावात् । अन्यथा दश दाडिमानि षडपूपा इत्यादिवाक्यवदप्रयोजकत्वात् । शक्यानुष्ठानेष्टप्रयोजनं च साक्षात्प्रमाणादिविषयाज्ञाननिवृत्तिलक्षणमुपलक्ष्यत एव, शास्वाध्ययनानन्तरभावित्वात्तस्य । परम्परया तु हानादिरूपं हिताहितप्राप्तिपरिहारसमर्थत्वात्प्रवचनस्य । निष्प्रयोजनस्य प्रवृत्त्यनङ्गत्वात्काकदन्तपरीक्षावत् । ततः साधूक्तं प्रत्यक्षमित्यादि ॥
ननु विशदं प्रत्यक्षमित्युक्तं तत्कीदृशं ज्ञानस्य वैशद्यमित्याशंक्याह
अनुमाद्यतिरेकेण विशेषप्रतिभासनम् ॥ तद्वैशचं मतं बुद्धेरवैशद्यमतः परम् ॥ ४ ॥
For Private And Personal Use Only