SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ११ भेदानामन्तर्भावात् । संक्षेपेण सामस्त्येन वा ग्रहः सङ्ग्रह इति व्याख्यानात् । ननु प्रमाणमित्येकत्वसंख्ययैवालं तत्रैवेतत्सख्यान्तर्भावात् किं तद्वित्वेनेति चेन्न । भेदगणनाया एव संख्यात्वादेकत्वस्य चाभेदत्वात् । द्रव्यार्थिकनयविवक्षया तदभ्युपगमात् । पर्यायार्थिकनयविवक्षया तु प्रमाणभेदानां द्वित्वस्यैव सङ्ग्रहत्वात् । नन्वस्तु द्वित्वं प्रमाणस्य प्रत्यक्षानुमानभेदादित्याशङ्कामपाकुर्वन् प्रत्यक्ष परोक्षभेदादिति मनसि कृत्वा तत्राद्यं तावदाह - प्रत्यक्षं विशदमिति यद्विशदं स्पष्टप्रतिभासनं ज्ञानं तत्प्रत्यक्षप्रमाणं भवति । अक्ष्णोति व्यामोति जानातीत्यक्ष आत्मा । तमेव क्षीणोपशान्तावरणं क्षीणावरणं वा प्रतिनियतं परानपेक्षं तत् प्रत्यक्षमिति व्युत्पत्तेः । न ह्यविशदखरूपस्य प्रमाणस्य प्रत्यक्षत्वमुपपन्नं अतिप्रसङ्गात् । तच्च प्रत्यक्षं द्विधेति प्रतिपादयति- मुख्यसंव्यवहारतः । मुख्यं च संव्यवहारश्च तावाश्रित्य प्रत्यक्षं द्वेधा भवतीति भावः । तत्र मुख्यं प्रत्यक्षमवधिमनः पर्ययकेवलभेदभिन्नं अशेषतो वैशद्यादिन्द्रियादिनिरपेक्षत्वाच्च । स्वावरणविशेषविश्लेषप्रादुर्भूतं हि तन्मुख्यतः प्रत्यक्षव्यपदेशभाग्भवति प्रत्यक्षमन्यदिति सिद्धान्तानुरोधात् प्रत्यक्षताऽनुपचारात् । यत्पुनरिन्द्रियानिन्द्रियनिमित्तं मतिज्ञानं तत्सांव्यवहारिकं प्रत्यक्षमित्युच्यते देशतो वैशद्यसम्भवात् । समीचीनप्रवृत्तिरूपो व्यवहारः संव्यवहारस्तमाश्रित्य प्रवृत्तेः प्रत्यक्षतोपचाराविरोधात् । आये For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy