________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
भट्टाकलंकप्रणीतं
न्यस्य मिथ्यात्वमित्यपि स्वेच्छाकारित्वमेव न प्रेक्षावत्वमविशेषात् । तन्न बहिरर्थशून्यं ज्ञानम् । न च प्रमाणान्तरेण निश्चितोऽपि संशयाद्यालीढापूर्वार्थ इत्युच्यते तत्रैव प्रमाणस्य साफल्यात् । नापि स्वरूपानवबोधनं, अवबोधनस्य प्रकाशरूपत्वात् । तस्य च स्वपरविषयत्वेन प्रतीतिसिद्धत्वात् । इदं नीलादिकमहं वेद्मीत्यन्तर्बहिरालम्बनस्यानुभवस्य सिद्धेः । अन्यथा बाह्यार्थानुभवस्याप्यपलापापत्तेः । स्वात्मनि कियाविरोध इत्यप्यनुपपन्नं, अन्यतरानुपलम्भसाध्यत्वाद्विरोधस्य । उपलभ्यते च ज्ञाने स्वरूपावबोधनद्वयं प्रदीपवत् । यथैव हि प्रदीपप्रकाशनयोरेकत्राविरोधः सकलसम्मतस्तथा स्वरूपावबोधनयोरप्यात्मन्यविरोधोऽङ्गीकर्तव्य एव न्यायायातत्वात् । अन्यथा पक्षपातप्रसङ्गात् । ततः साधूक्तं विज्ञानं स्वापूर्वाव्यवसायात्मकं ज्ञानमिति ॥
तच्च प्रत्यक्षमेवेति चार्वाका विप्रतिपद्यन्ते । प्रत्यक्षानुमान एवेति सौगतवैशेषिकाः । प्रत्यक्षानुमानागमा इति सांख्याः। प्रत्यक्षानुमानोपमानागमानीति नैयायिकाः । प्रत्यक्षानुमानागमोपमानार्थापत्य इति प्रभाकराः । प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावा इति भाट्टा: । तत्समस्तविप्रतिपत्तिविक्षेपार्थमिदमाह प्रमाणे इति संग्रह इति । सकलप्रमाणभेदप्रभेदानां संख्यासङ्ग्रहो द्वैविध्यमेव, नैकत्वादि, तत्रान्य
For Private And Personal Use Only