SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. साधूक्तं ज्ञानमेव प्रमाणमज्ञाननिवृत्त्यन्यथानुपपत्तरिति ॥ ननु ज्ञानं प्रमाणमस्तु विज्ञानाकारगोचरे एव । तत्तु निर्विकल्पकमेव विकल्पस्यावस्तुविषयत्वादिति सौगतविप्रतिपत्तिं निराकुर्वन्नाह- विज्ञानमिति । विशेषस्य जात्याद्याकारस्य ज्ञानमवबोधनं निश्चयो यस्य तद्विज्ञानं । विशेषेण वा संशयादिव्यवच्छेदेन ज्ञानमवबोधनं यस्य तद्विज्ञानमिति । न पुनर्निविकल्पकं दर्शनं तस्य व्यवहारानुपयोगात् । न खलु हानादिरूपं फलं व्यवहारिणां निर्विकल्पकदर्शनेन निर्वय॑ते अन्यथा निश्चयवैफल्यप्रसङ्गात् । विभ्रमैकान्तेऽपि संव्यवहारविशेषानुपपत्तेः । संशयादिव्यवच्छेदादेव हि ज्ञानं संव्यवहारहेतुर्न तु भ्रान्तेः । यतः सर्वमपि ज्ञानं भ्रान्तं स्यात् । ननु निश्चयात्मकपपि ज्ञानं न बहिरालम्बनं तस्यैवाभावादिति ज्ञानाद्वैतवादिनः । अर्थनिश्चयात्मकमेव ज्ञानं न स्वरूपावबोधकं स्वात्मनि क्रियाविरोधादिति यौगादयः । तदेतन्मतद्वयनिराकरणार्थमिदमेवार्थाप्यते- विज्ञानमिति- विविधं स्वापूर्वार्थगोचरं ज्ञानमवबोधनं यस्य तद्विज्ञानमिति व्याख्यानात् । न हि बहिरर्थशून्यं ज्ञानं प्रमाणं यतो बहिरर्थशून्यता तस्य साध्येत । तत्साधनानुमानस्य बहिरालम्बनत्वात् । अन्यथा साध्यसाधनयोरविशेषात् । किञ्च ज्ञानसत्त्वमन्तर्मुखानुभवबलादभ्युपगच्छन् बहिर्मुखानुभवबलात् ज्ञेयं नाभ्युपगच्छतीति किमपि महाद्भुतम् । एकस्य सम्यक्त्वम For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy