________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीतं त्मकत्वायोगात् । अकरणमेव प्रमाणमिति चेन्न क्रियाकारकव्यतिरेकेण तत्सिद्धेरर्थक्रियाशून्यत्वात् खपुष्पवत् । कारकसमुदायपक्षेऽपि तत्प्रमितौ तत्साकल्यलक्षणप्रमाणान्तरे कल्प्यमाने तत्प्रमितावपि तथेत्यनवस्थाप्रसंगात् । ततो न कारकसाकल्यमपि प्रमाणमज्ञानत्वादेव । इन्द्रियवृत्तिः प्रमाणमित्यप्यसम्भाव्यमचेतनत्वाविशेषात् सन्निकर्षवत् । किञ्च इन्द्रियाणां वृत्तिरुन्मीलनादिव्यापारः संशयादिव्यवच्छेदो वा प्रथमपक्षे न प्रमाणता व्यभिचारात् । क्वचित्संशयादावपि तद्व्यापारदर्शनात् । द्वितीयपक्षे तु ज्ञानमेव प्रमाणमित्यायातं अज्ञानात्तव्यवच्छेदानुपलब्धेः । ज्ञानोत्पत्तिकारणत्वादिन्द्रियाणामुपचारतः प्रमाणत्वं सर्वत्रानुमतमेव । ज्ञातृव्यापारस्य प्रामाण्यमपि ज्ञानात्मकत्वे सत्येव सुघटं । संशयादिविच्छित्तिफलस्य तेनैव व्याप्यत्वात् । अज्ञानात्मकत्वे तु तत्र तव्यवच्छेदकं किञ्चिदर्थान्तरमनुसरणीयं तस्यापि तथात्वेऽनवस्थापत्तेः । नन्वज्ञानमपि सन्निकर्षादिकं संशयादिव्यवच्छेदकारणमस्तु को दोष इति चेन्न । संशयादेरज्ञानविशेषत्वेन ज्ञानसामान्येन व्याप्यत्वात् । न च व्यापकेन व्याप्यं व्यवच्छेद्यतेऽन्यथा व्याप्यव्यापकभावविरोधात् । ननु संशयादेर्शानविशेषत्वेन ज्ञानसामान्येन व्याप्यत्वात्कथं ज्ञानेन विरोध इति चेन्न । अत्र सम्यग्ज्ञानस्यैव ज्ञानत्वेन विवक्षितत्वात्संशयादेश्च मिथ्याज्ञानत्वेन सम्यग्ज्ञानेन विरोधसिद्धेः । ततः
For Private And Personal Use Only