________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
अव्याप्त्यादिदोषविधुरत्वात् । प्रमाणत्वान्यथानुपपतेरिति हेतुवादरूपा परीक्षा | ततस्तल्लक्षणविप्रतिपचिनिराकरणात् । तथाहि प्रकर्षेण संशयविपर्यासानध्यवसायव्यवच्छेदेन मिमीते जानाति स्वपरस्वरूपं, मीयतेऽनेनेति मितिमात्रं वा प्रमाणमिति व्युत्पत्तेः । निश्चयव्यवहारास्त्यां द्रव्यपर्याययोरभेदेतरविवक्षया तथा निरुक्तेः सम्भवात् । न चाज्ञानेन संशयादिव्यवच्छेदः शक्यस्तदविरोधात् । यद्यस्य हि विरोधि तदेव तस्य व्यवच्छेदकं नान्यत् प्रकाश इवान्धकारस्य । तदव्यवच्छेदकं चाज्ञानात्मकं सन्निकर्षादिति कथं प्रामाण्यमास्तिघ्नुवीत । न हि रूपवद्रसेऽपि चक्षुस्संयुक्तसमवायलक्षणः सन्निकर्षो विद्यमानोऽपि तत्प्रमाहेतुः । न चक्षुषोऽपि रूपसन्निकर्षोऽस्ति तस्याप्राप्तार्थप्रकाशकत्वात् । न खलु पर्वता - द्यर्थप्रदेशं प्रति चक्षुर्गच्छति नाप्यसौ चक्षुर्देशमागच्छति येन तत्संयोगः स्यात् । योग्यप्रदेशावस्थानस्यैव तयोः प्रतीतेः । तत्तेजः संयोगो ऽस्त्येवेति चेन्न तेजः संयोगात्तमस एव विच्छेदान्न संशयादेरविरोधादित्युक्तमेव । तन्न सन्निकर्षः प्रमाणमचेतनत्वात् घटदिवत् । नापि कारकसाकल्यं तस्याप्यचेतनत्वाविशेषात् । किञ्च कारकसाकल्यस्य प्रमाणत्वे कर्तृकमदीनामपोद्धारायेोगान्निरालम्बनं निष्कलं च प्रमाणं स्यात् । कारकसाकल्ययोरत्यन्तभेदादयमदोष इति चेत्तदा कथं प्रमाणतत्साकल्ययोरभेदः स्यात् । प्रमाणस्य करणत्वेन तदा
For Private And Personal Use Only