SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टाकलंकप्रणीतं कल्पात्मकत्वं तथा यथाऽवसरं शास्त्रकारः स्वयमेव वक्ष्यतीत्युपरम्यते ॥ . तदेवं कण्टकशुद्धिं विधाय सम्बन्धाभिधेयशक्यानुष्ठानेष्टप्रयोजननिर्देशपूर्वकं प्रमाणस्य लक्षणभेदोपलक्षणार्थमिदं सूत्रमाह-- प्रत्यक्षं विशदं ज्ञानं । मुख्यसंव्यवहारतः॥ परोक्ष शेषविज्ञानं । प्रमाणे इति संग्रहः॥३॥ चत्वारो हि प्रतिपाद्याः । व्युत्पन्नोऽव्युत्पन्नः सन्दिग्धो विपर्यस्तश्च । तत्र नाद्यतुयौँ व्युत्पाद्यौ व्युत्पित्साविरहात् । अव्युत्पन्नस्तु लोभभयादिना व्युत्पित्सामापाद्य व्युत्पाद्यः । सन्दिग्धश्च स्वसन्दिग्धार्थप्रश्नकाले व्युत्पाद्यः । तदेतद्वयुत्पाद्यद्वयं प्रति प्रमाणस्योद्देशलक्षणपरीक्षाः प्रतिपाद्यन्ते शास्त्रप्रवृत्तेस्त्रिविधत्वात् । तत्रार्थस्य नाममात्रकथनमुद्देशः । उद्दिष्टस्यासाधारणस्वरूपनिरूपणं लक्षणम् । प्रमाणबलात्तल्लक्षणविप्रतिपत्तिपक्षनिरासः परीक्षा । तत्र प्रमितिरित्युद्देशः । सर्वशून्यवादिनामपि स्वेष्टानिष्टसाधनदूषणान्यथानुपपत्त्या तदभ्युपगमप्रसिद्धेः। तच्च ज्ञानमेव भवतीति लक्षणनिर्देशः For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy