________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. तेषां । कथम्भूतानां तत्त्वाहेतुफलात्मनां हेतु: कारणं फलं च कार्य ते आत्मानौ स्वरूपे येषां तानि तथोक्तानि । तत्त्वे परमार्थे न हेतुफलात्मानि तत्त्वाहेतुफलात्मानि तेषामिति । तदा स बुद्धः कथं धर्मतीर्थकरः स्यादित्यभिप्रायः । मिथ्याविकल्पात्मकत्वात् मिथ्या असत्यो विकल्पः स्वरूपसङ्कल्पः आत्मा स्वरूपं यस्यासौ तथोक्तः । प्रथमान्तस्यापि हेतुप्रयोगसम्भवात् । किंवत् नित्यत्ववत् यथा वस्तुनः सर्वथानित्यत्वे परमार्थसति व्यवतिष्ठमाना ईश्वरकपिलब्रह्माणो धर्मतीर्थकरा भवन्ति मिथ्याविकल्पात्मकत्वात्तथा बुद्धोऽपीत्यर्थः ॥ नन्विदं सर्वमिष्टमेव प्रतिभासाद्वैतस्यैव परमार्थसत्त्वादिति कश्चित प्रत्याह- तत्रेत्यादि, तत्र तस्मिन् समये संगतः समस्तज्ञानेप्वनुगतोऽयः प्रतिभासः समयस्तस्मिन् प्रतिभासाद्वैते । वस्तुनोऽद्वयपदार्थस्य । अर्थक्रियाऽनुभवो न स्यात् मिथ्याविकल्पात्मकत्वाविशेषात् । ननु स्वप्नेन्द्रजालप्रत्ययवत्सर्वप्रत्ययानां निरालम्बनत्वेन कथमनुमानस्य प्रामाण्यं यतोऽर्हन्नेव धर्मतीथंकरः साध्यत इति माध्यमिकमतमाशंक्याह- तत्र तस्मिन् समये समः स्वप्नोबोधसाधारणोऽयो बोधस्तस्मिन् । अर्थस्य हेयोपादेयरूपस्य । क्रिया हानोपादानलक्षणा । न स्यात् । कथं वस्तुतः परमार्थतः । पाठान्तरापेक्षयेदमुक्तं । न खल्वप्रमाणाद्धानादिव्यवस्थाऽतिप्रसंगात् । अनेन विभ्रमैकान्तोऽपि निरस्तः । तत एव यथा क्षणिकत्वाद्येकान्तानां मिथ्यावि
For Private And Personal Use Only