________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीतं प्रतिपादनसम्भवादिति प्रत्यवस्थां निराकुर्वन् स्याद्वादवमनो निष्कण्टकशुध्द्यर्थमाह---
सन्तानेषु निरन्वयक्षणिकचित्तानामसत्वेव चे-। त्तत्त्वाहेतुफलात्मनां स्वपरसङ्कल्पेन बुद्धः स्वयम्॥ सत्त्वार्थ व्यवतिष्ठते करुणया मिथ्याविकल्पात्मकः । स्यान्नित्यत्ववदेव तत्र समये नार्थक्रिया वस्तुनः ॥ २ ॥ बुद्धः क्षणिकैकान्तवादी । चेद्यदि । स्वयं आत्मना । व्यवतिष्ठते न निर्वाति (?)। किमर्थं सर्वार्थ दुःखाद्विनेयजनोद्धरणार्थं । कया करुणया कृपया । 'तिष्ठन्त्येव पराधीना येषां तु महती कृपा' इति वचनात् । केन व्यवतिष्ठते स्वपरसङ्कल्पेन स्वः प्रतिपादको बुद्धः परः प्रतिपाद्यो दिङ्नागादिः तयोः संकल्पोऽसतः सदारोपो यस्तेन । केषु सन्तानेषु प्रबन्धेषु । किंविशिष्टेषु असत्स्वेव अपरमार्थसत्स्वेव । केषां निरन्वयक्षणिकचित्तानां क्षणे निरंशकालविशेषे भवानि क्षणिकानि, चित्तानि ज्ञानानि, क्षणिकानि चित्तानि क्षणिकचितानि; अन्वयो द्रव्यं तस्मान्निष्क्रान्तानि निरन्वयानि परस्परात्यन्तभिन्नानीत्यर्थः । तानि च तानि क्षणिकचित्तानि च
For Private And Personal Use Only