________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
३.
मित्यप्यविरुद्धं जीवादितत्त्वप्रतिपादकत्वात्प्रवचनस्य । तस्मै तीर्थमिति चानुमतमेवाभिनवपुण्यास्रवप्रयोजनत्वात्परमागमस्येत्यत इदमुपपन्नं । वृषभादिमहावीरान्ता अर्हन्त एव स्वहितै - षिभिर्नमस्कार्य धर्मतीर्थकरत्वात् । योऽर्हन्न भवति स न धर्मतीर्थकरो यथा रथ्यापुरुषः । धर्मतीर्थकराश्चैते तस्मात्त एव नमस्कारार्हा इत्यविनाभावनियमनिश्चयैकलक्षणात्साधनात्साध्यसिद्धिरबाधनात् । नन्वनैकान्तिकमिदं धर्मतीर्थत्वं अनस्वपि सुगतादिषु दर्शनात् । तेऽपि हि स्वाभिप्रेतधर्मागमप्रतिपादकत्वेन तत्तद्वादिभिरभिधीयन्ते इति चेत्तद्यवच्छेदनार्थमाह- स्याद्वादिभ्य इति । स्यात्कथञ्चित् सदसदात्मकं वस्तु वदन्तीत्येवंशीलाः स्याद्वादिनस्तेभ्य इति । तथा हि अर्हन्त एव धर्मतीर्थकराः स्याद्वादित्वात् । न खल्वनर्हतां स्याद्वादित्वमुपपन्नं यतो धर्मतीर्थकरत्वं तेषां प्रकल्प्येत । क्षणिक नित्यत्वादिसर्वथैकान्तवादित्वेन तद्विरुद्धत्वात् । ननु किमर्थं मंगलं शास्त्रकारेणाभिधीयते इत्याशङ्कायामाह-स्वात्मोपलब्धये स्वस्य नमस्कर्तुरात्मा अनन्तज्ञानादि स्वरूपं तस्योपलब्धिः सिद्धिस्तस्यै । सिद्धिः खात्मोपलब्धिरित्यभिधानात् । ज्ञानावरणादिमलविलयादनन्तज्ञानादिखरूपलाभस्य मंगलफलत्वोपपत्तेः ॥
ननु सुगतादीनां सर्वथैकान्तवादिनामपि धर्मतीर्थकरत्वमविरुद्धमेव बाधकप्रमाणाभावात् तत्तीर्थेऽपि प्रमाणादिलक्षण
For Private And Personal Use Only