________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भट्टाकलंकप्रणीतं
Acharya Shri Kailassagarsuri Gyanmandir
अवयवार्थप्रतिपत्तिपूर्विका समुदायार्थप्रतिपत्तिरिति न्यायादस्यादिश्लोकस्य तावदवयवार्थः कथ्यते || अस्तु भूयात् । किं ? नमो नमः भृशं पुनः पुनर्वा नमस्कारः प्रणाम इत्यर्थः । अनेन नमस्कृतावास्तिक्यमास्थितं भृशादौ द्विर्वचनविधानात् ॥ केभ्यः ? वृषभादिमहावीरान्तेभ्यः । वृषभः पुरुजिनः आदिः प्रथमावयवो येषां ते वृषभादयः । महावीरो वर्धमानजिनः अन्तोऽवसानावयवो येषां ते महावीरान्ताः । वृषभादयश्च ते महावीरान्ताश्च ते तथोक्तास्तेभ्यः । नमः शब्दयोगे चतुर्थीविधानात् । इदमेवाह परममङ्गलं यज्जिने• द्वनमनं नाम मलगालनमङ्गाद्गालनलक्षणफलस्यात एव समासेsपि ( ? ) । मलं पापं गालयति ध्वंसयति मङ्गं पुण्यं लात्यादते अस्मादिति वा मङ्गलमिति निर्वचनात् । ननु जिनेन्द्र नमस्कारवत् श्रुतादिनमस्कारस्यापि मंगलत्वेन तेऽपि किमिति नैं नमस्कृता इत्याशंक्येदं विशेषणमाह- धर्मतीर्थकरेभ्य इति । धर्म एव तीर्थं, धर्मस्य प्रतिपादकं तीर्थं, धर्माय प्रवर्तनं तीर्थमिति वा धर्मतीर्थं प्रवचनं परमागम इति यावत् । तत्कुर्वन्ति स्वोपज्ञतया प्रतिपादयन्तीति धर्मतीर्थ - करास्तेभ्यः । कोऽयं धर्म इति चेत्- उत्तमक्षमादिलक्षणो जीवादिवस्तुस्वभावो जीवस्य सुखप्रदः शुभधर्मरूपः पुगलपरिणामश्च धर्म इत्युच्यते । स एव तीर्थं संसारोत्तरणकारणत्वादुत्तमक्षमादेः सामानाधिकरण्याविरोधात् । तस्य तीर्थ
1
For Private And Personal Use Only