________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीपरमात्मने नमः॥ अथ लघीयस्त्रयम् .
जिनाधाशं मुनि चन्द्रम कलङ्क पुनः पुनः ॥ अनन्तवीर्यमानौमि स्याद्वादन्यायनायकम् ॥१॥ न तशात्वाऽभिमानेन किन्तु मादृकप्रतीतये ॥ लघीयस्त्रयतात्पर्यवृत्तिं वक्ष्ये यथाश्रुतम् ॥२॥ श्रीमतो न्यायशास्त्ररत्नाकरस्यामेयप्रमेयमणिगणगर्भस्यातिगम्भीरस्य बालानां दुरवगाहतया हिताहितविशेषविज्ञानार्थ प्रवचनार्थमुध्दृत्य प्रतिपिपादयिषुः सकलतार्किकचक्रचूडामणिमरीचिमेचकितचरणनखमयूखोल्लेखो भगवान् भट्टाकलङ्कदेवः पोतायमानं लघीयस्त्रयाख्यं प्रकरणं प्रारभमाणस्तदादौ निर्विघ्नतादिफलचतुष्टयजुष्टं परममङ्गलमङ्गीकुरुते-- धर्मतीर्थकरेभ्योऽस्तु ।
स्याहादिभ्यो नमो नमः ॥ वृषभादिमहावीरा-।
न्तेभ्यः स्वात्मोपलब्धये ॥१॥
For Private And Personal Use Only