________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गम्यते । स च रट्टराजस्य कार्तवीर्यसंज्ञस्य गुरुरासीदिति च । तेन यद्ययं श्रीमानभयचंद्रो मुनिचंद्रांतेवास्यभविष्यत् तदा श्रीविक्रमार्कस्य त्रयोदशशततमाब्द्यामभविष्यदिति सिध्यति ।। __ अन्यदपि- श्रीज्ञानभूषणाचार्यांतेवासिना श्रीनेमिचंद्राचार्यवर्येण विरचिता गोम्मटसारग्रंथप्रवरस्यैका टीका वर्तते । इयं तु प्रतापगढनगरे तथा जयपुरस्थपाटोदीमंदिरे च संपूर्णा वर्तते । अस्यां भगवान् नेमिचंद्रः- दाक्षिणात्याचार्यमुनिचंद्रादधिगतसिद्धांतागमोऽहं धर्मचंद्राभयचंद्रलालावर्णिनामनुजिघृक्षयेमां व्याख्यां व्यरचमिति- सुविस्पष्टं निर्दिशति । पाटोदीमंदिरस्थपुस्तकस्य प्रांतेऽयं श्लोकश्चोपलभ्यते---
निग्रंथाचार्यवर्येण त्रैविद्यचक्रवर्तिना ॥ - संशोध्याभयचंद्रेणालेखि प्रथमपुस्तकं ॥ १ ॥ इति । इतश्च श्रीनेमिचंद्रविरचितगोम्मटसारव्याख्यायाः प्रथम पुस्तकमभयचंद्रेणालेखीति विज्ञायते । अयमेव चाभयचंद्रो नेमिचंद्रगुरोर्मुनिचंद्रस्यापि शिष्यत्वं स्वीचकारेत्येतदपि नासंभवि । परं लघीयस्त्रयतात्पर्यवृत्तिप्रणेता श्रीमानभयचंद्रो यदि श्रीनेमिचंद्रेण गोमटसारव्याख्याप्रणयनेनानुगृहीतादभयचंद्रतोऽभिन्नः स्यात्तर्हि सः वसुखमुनींदुमित-( १७०८). विक्रमसंवत्सरपूर्वापरीभूतकाले स्यादिति । यतश्च गोमटसार. वृतिरियं श्रीवीरनिर्वाणतो मुन्यर्षीदुलोचनमित-(२१७७ ) संवत्सरे बभूवेति ज्ञायते ॥
For Private And Personal Use Only