________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५]
त्प्रणेत्रा 'प्रभाबलाददः सर्वं ' ( पृ० १८ ) ' अकलंकप्रभा - व्यक्तं ' ( पृ० २८) ' अकलंकप्रभाभारद्योतितं ' (पृ. ९२ ) इति च तत्र तत्र प्रभापदसंवलितः प्रभाचंद्रासंबोधनानुपपन्नसार्थक्य वाक्यविन्यासः प्राणायि । ततोऽनुमथिते न्यायकुमुदचंद्रोदयादनंतरभावित्वमेतस्याः ।
अयं श्रीमदभयचंद्रसूरिः अमुकस्मिन्नेव समये बभूवेति निश्चेतुं नैव शक्यते । एतद्रथविरचनारंभे श्रीमदनंतवीर्याचार्यप्रणामापचितिविधानमिदमनुमापयति न्यायकुमुदचंद्रोदप्रणेत्रनंतर भावित्वमेतस्य पंडितप्रवरस्य । श्रीमदनंतवीर्याचार्यसमयस्तु ऋतुनागखेदुमित - ( १०९६ ) - विक्रमसंवत्सर पूर्वापरीभूतः काल इति प्रमाणांतरान्निश्चीयते । तेन च तदुत्तरभावित्वमेतस्य निश्चेतव्यं । परमत्र किञ्चिद्वाधकमपि वर्तते । यतोऽयं तत्रभवानभयचंद्रसूरिरात्मानं मुनिचंद्रमुनीं - द्रांतेवासिनं प्रथयति । तद्यथा-
नाभ्यासस्तादृगस्ति प्रवचनविषयो नैव बुद्धिश्व ताढकू, नोपाध्यायोsपि शिक्षानियमनसमयस्तादृशोऽस्तीह काले । किं त्वतन्मे नींदुवतपतिचरणाराधनोपात्तपुण्यं, श्रीमद्भट्टाकलंकप्रकरणविवृतावस्ति सामर्थ्यहेतुः ॥ १ ॥ जिनाधीशं मुनिं चंद्रमकलंकं पुनः पुनः ॥ मुनिचंद्रनामा कश्चित्पंडितप्रवरः ऋतुवसुलोचनेंदुमित( १२८६ )- विक्रमसंवत्सरसमये आसीदिति प्रमाणांतरादव
For Private And Personal Use Only