________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४] ५ बृहत्रयं- ग्रंथोऽयं कोल्हापूरनगरीयजैनग्रंथभांडागारे वर्तते इति श्रूयते ।
६ न्यायचूलिका- अयमपि श्रीमदकलंकदेवप्रणीत इति श्रूयते परं नोपलभ्यते ।
७ अकलंकस्तोत्रं-- मुद्रितमिदं । परमिदमकलंकप्रणीतं स्यान्नवेति संदेहः ।
८ स्वरूपसंबोधनं ।
अन्येऽपि केचन ग्रंथाः श्रीमदकलंकभगवत्प्रणीताः स्युरित्यनुमीयते।
सर्वमिदं भगवदकलंकदेववृत्तं जैनहितैषिनामकमासिकपुस्तके एकादशतमभागे ७८ अंकयोर्विस्तरशो लिखितमस्माभिरत्र तु संक्षिप्य जिज्ञासुविद्वजनसंतोषाय प्रकाशितमिति शम् ॥
श्रीमदभयचन्द्रसूरिः । भट्टाकलंकप्रणीतलघीयस्त्रयव्याख्यानग्रंथा अनेके स्युरित्यनुमीयते । द्वौ व्याख्याग्रंथौ इदानीमुपलब्धौ तयोरेकः श्रीप्रभाचंद्राचार्यप्रणीतो न्यायकुमुदचंद्रोदयनामा अपरश्च स्याद्वादभूषणापरनाम्नी तात्पर्यवृत्तिः । इयं तात्पर्यवृत्तिः श्रीमद. भयचंद्रसूरिप्रणीता न्यायकुमुदचंद्रोदयादर्वाचीना। यतस्त
For Private And Personal Use Only