SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३] तुंगमहीपतेः सभायामपि विवादयाच्नायै गतवानासीदित्यपि मल्लिषेणप्रशस्तित एवावगम्यते । अयं च साहसतुंगमहाराजो राष्ट्रकूट-(राठोर)-वंशीय आसीत् । एतस्य प्रसिद्ध नामनी शुभतुंग इति कृष्णराज इति च आस्तां । अनेन खंदुवसुमित-( ८१० )-विक्रमसंवत्सरमारभ्य लोचनाग्निवसुमितवत्सरं (८५२) यावत् राज्यसुखमनुबभूवे इति बहुप्रमाणतो निश्चेतुं शक्यते । तेनं चायमेवात्रभवतोऽकलंकस्वामिनः स्थितिकाल इति सुविस्पष्टं । _ विद्वदग्रेसरस्यैतस्य गुरुपरंपरा, कतरस्माद्गुरोः सकाशादिदमनल्पं शास्त्रविज्ञानमधिगतमिति च नोपलभ्यते । मल्लिघेणप्रशस्तितः केवलं पुष्पषेणाख्य एतस्य सतीर्यो वा गुरुतनयो वाऽऽसीदित्येवावगम्यते । श्रीमदकलंकदेवप्रणांता ग्रंथा अधो लिख्यते१ अष्टशती- श्रीसमंतभद्रस्वामिविरचितदेवागमस्तोत्रभाष्यमिदं अष्टसहस्रीपुस्तकांतर्मुद्रितं । २ राजवार्तिकालंकारः- भगवदुमास्वातिप्रणीततत्त्वार्थसूत्रभाष्यमिदं काश्यां सनातनजैनग्रंथमालायां मुद्रितं । ३ न्यायविनिश्चयः– अस्यैकमेव पुस्तकं श्रीवादिराजकृतवृत्तिसहितं आरानगरीयसिद्धांतभवने वर्तते । ४ लघीयस्त्रयं । For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy