SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२] राजवार्तिकालंकारप्रथमाध्यायांत्यश्लोकादयमकलंको लघुहव्वनाम्नो राज्ञः पुत्र आसीदित्यवगम्यते । लघुहव्वनामा कश्चन माण्डलिको भूपो मान्यखेट( मलखेड )नगरस्यासमंतात् स्वां राजधानीमकल्पयदित्यनुमीयते । राजावलिकथातस्तु श्रीमदकलंकदेवस्य जन्म कांचीपुरेऽभूदिति विज्ञायते । अयमकृतदारपरिग्रह एवासीत् । अनेन च पोन्तकग्रामवर्तिबौद्धविद्यालये शास्त्रज्ञानमधिगतं । स्थानमिदं ट्विटूरग्रामनिकटे तत्रत्त्यैः परंपरातः प्रदर्श्यते । ___ कथांतरानुसारतस्तु तत्रभवानयमकलंकः सुधापुरे देशीयगणाचार्यपदमधिष्ठित आसीदिति विज्ञायते । नगरमिदानी उत्तरकनारादेशे ‘सोड' इति नाम्ना प्रसिद्धमास्ते देशीयगणेति देवसंघान्तर्गतैकशाखानामाभूदिति च ।। वादिविजयिनाऽनेन पंडितप्रवरेण साकं हिमशीतलभूपसभायां । तत्रत्यपंडितानां महान् विवादः समजनि । अयं हिमशीतलभूपतिः पल्लववंशीयः कांचीनगरी ( कांजीवरम् ) खां राजधानी प्रकल्प्य तामेवाध्यतिष्ठत् । भूपतिरयं बौद्ध आसीदत उपरि निर्दिष्टा विवदिषवो बौद्धा एवासन्निति विस्पष्टमेव । तदानीं पराभूतिप्रकुपितेन राज्ञा सर्वे ते बौद्धपंडिताः स्वराजधानीतः सिलोनदेशीयकैंडीग्रामं प्रति निर्वासिताः । इदं विवादवृत्तं श्रवणबेळगुळपुण्यग्रामोपलब्धमल्लिषणप्रशस्तितोऽवगम्यते । अन्यचायं पंडितधौरेयः साहस For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy