SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपरमात्मने नमः ॥ ग्रंथकर्तृणां सामान्यतः परिचायकं वृत्तं । श्रीभट्टाकलङ्कः। स्वस्ति श्रीमद्दिगम्बराचार्यवर्याणां परम्परायां श्रीस्वामिसमंतभद्रजीवनसमयमतिक्रम्य ये ये विद्वद्वरेण्याः समभूवन् तेषु भगवानकलंकः सकलाभिरूपगरिष्ठस्समभूत् । नायं भगवान् केवलं ग्रंथरचनचातुर्येणैव कृतधियां स्तुतिपथमवातरत् किंतु तदानींतनदुर्वादिविजयसंपादितजिनधर्मपुनर्जीवनोपकारेणाऽपि, इति जानन्तु । अयमपरोऽप्यस्य महाभागस्यावतारप्रभावो यदेतज्जीवनकालानंतरं कर्णाटदेशे विद्यानंदप्रभाचंद्रमाणिक्यनंदिवादिसिंहकुमारसेनादयोऽनेके तार्किकशिरोमणयः समुद्भूयेमं सर्वज्ञप्रणीतधर्ममवितथमजेयत्वेन प्रकाशयांचक्रुः । स्तुत्यं जन्म यदीदृशमेव । वादिराजप्रशंसायां " सदसि यदकलंकः कीर्तने धर्मकीर्तिः” इत्यादिश्लोकेन वादिराजे अकलंकाहार्याभेदनिर्देशात् सुलभमस्य सदसि वाक्पाटवमप्यनुमातुं सुधीभिः। एतस्य च भट्टाकलंकेत्यपरेण भट्टपदसंवलितेन नाम्ना तदानीमतिदुःसंपाद्यभट्टेतिबिरुदसम्पादनमपि ज्ञाप्यते एव । तथाऽयं कव्युपपदधार्यप्यासीत् । लघुसमंतभद्रविद्यानंदाभ्यां तु 'सकलतार्किकचक्रचूडामणि' इति विशेषणवैशिष्ट्येनायं स्वोपज्ञग्रंथादौ स्मृतः । इत्येतत्सर्वमेतस्य महाभागस्य ज्ञानोत्कर्षमेव प्रकाशयति । For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy