SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७] श्रीमदनंतकीर्तिः । श्रीमदनंतकीर्त्याचार्यस्येदानी यावदिमौ लघुबृहत्सर्वज्ञसिध्द्यभिधानकौ ग्रंथौ समुपलब्धौ । अत्रापि न तेन महाभागेन स्वपरिचायकं किमपि व्यलेखि । अतोऽस्य जनिस्थानादिविषये निश्चयेन न किमपि लिखितुं पारयामः । किन्त्वेतावदेव निवेदयामो यदयं विद्वन्मुकुटहीरः श्रीवादिराजसूरितः प्राक्समजनीति । यतश्च श्रीवादिराजेनाधिगतोऽयं पंडितप्रवरः आत्मनैवाद्वितीयेन जीवसिद्धिं निबध्नता । अनंतकीर्तिना मुक्तिरात्रिमार्गेव लक्ष्यते ॥ इति ॥ अयं श्रीवादिराजः पार्श्वनाथकाव्यप्रणेताऽऽसीत् । तच्च काव्यमनेन लोचनवसुखेंदु-(१०८२)-मितविक्रमसंवत्सरे व्यरचीति विज्ञायते । अनेनैव च श्रीवादिराजकृतनामनिवधनश्लोकेन श्रीमदनंतकीर्तिना जीवसिध्यभिधोऽन्योऽपि ग्रंथो निरमायीति ज्ञायते । इतोऽधिकमस्मिन् पंडितप्रवरविषये न लभ्यते । केवलमस्य सर्वज्ञसिद्धिग्रंथस्यांतिमश्लोकात् एतावदेव ज्ञातुं शक्यते यदयं विद्वद्वरिष्ठो महाकीर्तिभाजनमभूदिति । समस्तभुवनव्यापियशसाऽनंतकीर्तिना । कृतेयमुज्वला सिद्धिर्धर्मज्ञस्य निरर्गला ॥ इति शम् ॥ निवेदकःनाथूराम प्रेमी. For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy