SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १५९ मिच्छता सर्ववस्तुनो वेदकः प्रमाणमेष्टव्यः । यथाच सर्वमर्थजातं दृष्टपुरुषार्थसिद्धिनिबंधनमेवमदृष्टपुरुषार्थसिद्धिनिबंधनमपि । तस्मादपि सर्व वस्तु परार्थवृत्तेनावश्यं ज्ञातव्यं । सर्वस्यापि वस्तुनः साक्षात्परंपरया वा मुक्त्युपाये व्यापारात् एकस्याप्यज्ञाने तदंगवैकल्येन संपूर्णस्य मुक्त्युपायस्योपदेशासंभवात् । तथाचोक्तं - प्रमाणविनिश्चये एकधमस्याप्यज्ञाने परार्थप्रवृत्तेः कार्याकार्यानवबोधात् सर्वत्राशंकोत्पत्तेः । सर्वस्य क्वचित्कथंचिदुपकारात्तदज्ञाने तदंगविकलत्वात् अक्षुणविधानायोगादिति । यदि च सर्वज्ञः सर्वमर्थमवश्यं जानातीति नेष्यते तदा क्षणिकत्वसाधनं विशीयेत । तथाहि-- सर्वज्ञस्य सर्वार्थविषयज्ञानोत्पत्तिनियमाभावे चरमक्षणस्य योगिविज्ञानजनकत्वनियमाभावादनर्थक्रियाकारिणोऽवस्तुत्वेन पूर्वपूर्ववस्तुक्षणानामप्यवस्तुत्वात् साकल्येन तत्संतानस्यावस्तुत्वं स्यात् । अथार्थक्रियाकारित्वाभावेऽपि चरमक्षणस्य वस्तुत्वमिष्यते तक्षणिकस्यार्थक्रियारहितस्यापि वस्तुत्वमिष्यतां । तथाच सत्वकृतकत्वादेरनैकांतिकत्वात् क्षणिकत्वसाधनमुत्सीदेत् । ततः क्षणिकत्वसिद्धिमिच्छता सर्वज्ञः सर्वमर्थमनवयवेन जानातीत्यभ्युपगंतव्यं । तथाच तदुपदेशात्प्रवृत्तिकामेनापि सर्वविषयं ज्ञानं तस्यावश्यमन्वेषणीयमित्येतदपि सौगतैरवश्यमेष्टव्यं । अन्यथा सर्वमर्थमजानतोऽक्षूणविधानं न संभवतीति आशंकायां For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy