SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ . भट्टानन्तकीर्तिप्रणीता पदार्थज्ञत्वसाधनप्रतिषेधाभ्यामपीति । ततः सर्वजगत्सूक्ष्मभेदज्ञत्वं प्रसाधयल्लोकः स्थाने एव क्लिश्यते ॥ यच्चोक्तंएतच्च फलवज्ज्ञानं यावद्धर्मादिगोचरं ॥ न तु वृक्षादिभितैिरस्ति किंचित्प्रयोजनमिति ॥१॥ तत्रापि यदि तावत्सर्वज्ञस्य वृक्षादिभिर्ज्ञातैर्न किंचिप्रयोजनमित्युच्यते तदाऽत्यल्पमभिधीयते । तस्य कृतार्थत्वेन धर्माधर्मादिभितैिरपि प्रयोजनाभावात् । अथास्मदादीनां तैः सर्वज्ञज्ञानैर्न किंचित्प्रयोजनं तदसिद्धं । तथाहि यथा धर्मादिभिमा॑तैरस्त्यस्माकं प्रयोजनं तथा वृक्षादिभिः सर्वज्ञज्ञातैरस्ति प्रयोजनं । वृक्षलतातृणौषधिप्रभृतीनां चतुविधस्य जरायुजांडजोद्भेदजस्वेदजभूतग्रामस्य पृथिव्यादीनां च महाभूतानां च महाभूतानां प्रतिव्यक्ति प्रत्यवस्थं प्रत्यवयवं प्रतिसंस्कार प्रतिद्रव्यांतरसंबंध वा शक्तिभेदेन चिकित्सादावुपयोगसद्भावात् । तथाच यथाऽनुष्ठेयमदृष्टं पुरुपार्थसाधनं तथा दृष्टपुरुषार्थसाधनमपीति । अनुष्ठेयगतं ज्ञानं विचार्यमिच्छता सर्ववस्तुगतं ज्ञानं विचार्यमेवेष्टव्यं । सर्वस्यापि वस्तुनः किंचित्साध्यांगत्वेनानुष्ठेयत्वात् । किंच सर्वस्यापि वस्तुनश्चिकित्साद्यंगस्य देशांतरकालांतरसंस्कारांतरावस्थांतरप्रकृत्यंतररोगांतरपुरुषांतराद्यपेक्षया हेयोपादेयरूपत्वात् । हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकं पुरुषं प्रमाण For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy