SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५७ बृहत्सर्वज्ञसिद्धिः त्रस्य भूतवर्तमानादौ सामर्थ्य दर्शितं । इत्येवं ब्रुवता यथा शब्दमात्रस्य सामर्थ्यप्रदर्शनद्वारेण शब्दविशेषस्य सामर्थ्य प्रदर्श्यते यथा च भूतादौ सामर्थ्यसमर्थनद्वारेण भूतादीनामन्यतमस्मिन् धर्मादौ सामर्थ्य समर्थ्यते तथा सूक्ष्मादिप्रत्यक्षत्वप्रसाधनद्वारण सूक्ष्मादीनामन्यतमस्य धर्मादेः प्रत्यक्षत्वं प्रसाध्यते । यथा च शब्दमात्रस्य महाविषयत्वख्यापनेन माहात्म्यख्यापनार्थ भूतादौ सामर्थ्य ख्याप्यते तथा दोषावरणाभावादाविर्भूतस्यात्मनो ज्ञानस्य महाविषयत्वज्ञापनेन माहात्म्यज्ञापनार्थ सूक्ष्माद्यर्थसाक्षात्करणं परैः प्रसाध्यमानं किं नानुमन्यत इति । तथा धर्माधर्ममुक्तिमार्गादिभिः सूक्ष्मांतरितदूरार्थानां पुरुषार्थोपयोगित्वेन समानत्वज्ञापनार्थं च सूक्ष्मादिप्रत्यक्षत्वसाधनद्वारेण धर्माधर्मादिप्रत्यक्षत्वं प्रसाध्यत इति । तथाहि- सर्व वस्तु चित्साध्यांगत्वेन (चिरित्साध्यंगत्वेनेति मूलपाठः ) पुरुषार्थोपयोगि । तथाचोक्तं चरकप्रतिसंस्कृतेऽमिवेशितंत्रे- नानौषधभूतं जगति किंचिद्रव्यमुपलभ्यत इति । तस्य च समस्तौषधभूतस्य द्रव्यस्य देशकालावस्थावयवसंस्कारद्रव्यांतरसंबंधभेदेन रसवीर्यविपाकानां भेदात्कार्यभेदोपलब्धिस्तथैव साक्षात्करणमभ्युपगंतव्यं । तथाच न सर्वप्रत्यक्षदर्शित्वप्रतिज्ञा निष्फला। नापि समस्तावयवव्यक्तिविस्तारज्ञानसाधनमपार्थकं । अतो यथा धर्माधर्मज्ञत्वसाधनप्रतिषेधाभ्यां तत्प्रणीतागमग्राह्यहेयत्वे भवतस्तथैवेतरसर्व For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy