SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १५५ साक्षात्करणसाधने सूक्ष्मादीनामन्यतमस्य धर्माधर्मादेरपि पुरुषार्थोपयोगिनः साक्षात्करणस्य सिद्धे धर्मे चोदनैव प्रमाणमिति प्रतिज्ञा विशीर्येत । ततो धर्मे चोदनैव प्रमाणमिति ब्रुवन् सूक्ष्मादिप्रत्यक्षत्वमपि निषेध्दुमर्हति । ततः कथं प्रतिज्ञार्थः पुरुषार्थानुपयोगी विवादास्पदं वा न स्यात् यतः प्रतिज्ञार्थो नर्थकस्तत्र च प्रवर्तमानो हेतुः सार्थको न स्यात् । अथ कस्मात्सूक्ष्मादिपदार्थसाक्षात्करणसाधनद्वारेण धर्मादिप्रत्यक्षत्वं प्रसाध्यते । न पुनः साक्षाद्धर्माधर्मयोरेव प्रत्यक्षत्वं प्रसाध्यत इति चेत् दोषावरणविवेकादाविर्भूतस्यात्मनो ज्ञानस्य स्वरूपज्ञापनद्वारेण महाविषयत्वख्यापनान्माहात्म्यख्यापनार्थं धर्माधर्मवत्सूक्ष्मादयोऽपि सर्वे भावाः पुरुषार्थोपयोगिन इति ज्ञापनार्थं च सूक्ष्मादिप्रत्यक्षत्वज्ञापनद्वारेण धर्मादिप्रत्यक्षत्वं प्रसाध्यते यथा धर्मे चोदना प्रमाणमेवेत्यस्यावधारणस्य समर्थनपरेण । चोदना हि भूतं भवंतं भविष्यंतं सूक्ष्म व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थमवगमयितुमलमित्यनेन भाष्येण शब्दमात्रस्य भूतादौ सामर्थ्यप्रदर्शनद्वारेण शब्दविशेषस्य विधायकस्य भूतादीनामन्यतरस्मिन् धर्माधर्मादौ सामर्थ्य प्रदर्यत इति । तथाहि धर्मे चोदनैव प्रमाणं प्रमाणमेव चोदनेत्यवधारणद्वयं चोदनालक्षणो धर्म इत्यस्मिन् सूत्रे प्रतिज्ञातं तदसंबद्धं । कथं ? संभवदर्थविषयं हि कार्यवाक्यं प्रतिज्ञोच्यते । न चायमर्थः संभवति यत्प्रत्यक्षादिग्रहणार्ह For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy