________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४ भट्टानन्तकीर्तिप्रणीता ततो नाप्यभावविरुद्धेयं प्रतिज्ञा । नाप्युपमानविरुद्धा । तथाहि- सर्वानेवाधुनातनान् पुरुषानसर्वज्ञानुपलभ्य तत्सादृश्योपमानेन शेषाणामप्यसर्वज्ञत्वसाधनं । एवं स्याद्यधुपमानभूताः सर्व एवेदानींतनाः पुरुषाः शेषाश्चोपमेयाः सर्वे केनचिदसर्वज्ञत्वेन दृष्टा भवेयुः । यावता इदानींतनाः केचिदेव दृष्टा न सर्व दृष्टाः । दृष्टा अपि नासर्वज्ञत्वेन दृष्टाः चेतोधर्मत्वेनातींद्रियस्यासर्वज्ञत्वस्य दृष्टेष्वपि नरेषु द्रष्टुमशक्यत्वात् । नापि शेषाः केनचित् दृष्टाः । तस्मादुपमानोपमेययोरप्रत्यक्षत्वान्नोपमानमप्यत्र संभवति । न हि उपमानोपमेययोर्गोगवययोरप्रत्यक्षत्वे गौरिव गवयो गवयवद्वा गौरित्युपमानं कदाचित्प्रवर्तमानं दृष्टमिष्ट वा। अथोपमानोपमेयभूतानामिदानींतनानामन्येषां च सर्वेषामसर्वज्ञत्वे न प्रत्यक्षत्वमिष्यते । तत्रापि नोपमानेन किंचित्प्रत्यक्षेगैव शेषाणामसर्वज्ञत्वसिद्धेः । इदानींतनानन्याँश्च सर्वानसर्वज्ञत्वेन साक्षात्कुर्वन् स एव सर्वदर्शी स्यात् । तदेवमनुमानाभावोपमानप्रमाणानामबाधकत्वान्नासंभवदर्थविषयेयं प्रतिज्ञेति ॥
यदप्युक्तं प्रतिज्ञार्थोऽनर्थकः पुरुषार्थानुपयोगित्वात् काकदंतपरीक्षावत् कामिन्याः षंढरूपवैरूप्यपरीक्षावद्वेति ॥ तथा यदप्यन्यदुक्तं- न चैतत्साध्यं साधनमर्हत्यविवादास्पदत्वादिति ॥ तदेतदुभयमप्ययुक्तं । तथाहि- सूक्ष्मांतरितदूरार्थ
For Private And Personal Use Only