SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः ज्ज्ञत्वं तद्विषयज्ञानं तदन्यज्ञानं, तदपि कस्यचिदेवासर्वज्ञत्वं प्रसाधयतीति सिद्धसाध्यता स्यात् । सर्वज्ञसद्भावादन्यस्तदभावस्तद्विषयज्ञानं तदन्यज्ञानमिति चेत्तेनापि यदि सर्वदा सर्वत्र सर्वज्ञाभावः प्रतीयते स एव दोषः, तथाजानन्नेव सर्वदर्शी स्यादिति । ननु साक्षात्सर्वमर्थ पश्यन् सर्वदर्शी स्यात् । नास्तीति ज्ञानं तु मानसमक्षानपेक्षमेवोपजायते । तथाचोक्तं--- गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनं ॥ ___ मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षयेति ॥ १ ॥ ततः कथं मानसेन नास्तिताज्ञानेन ज्ञानवान् सर्वदर्शी स्यात् इति चेन्न । अस्तिताज्ञानस्य प्रत्यक्षत्वेऽपि सर्वज्ञनास्तिताधिकरणयोः सर्वदेशकालयोः प्रत्यक्षत्वमभ्युपगंतव्यं गृहीत्वा वस्तुसद्भावमिति वचनात् । अन्यथाऽप्रत्यक्षप्रदेशाधिकरणघटाद्यभावप्रतिपत्तेरिवाप्रत्यक्षकालत्रयत्रिलोकस्थसर्वज्ञाभावप्रतिपत्तेरप्यभावः स्यात् । तस्मादनवयवेन देशकालौ साक्षात्कुर्वंस्तत्र स्थितान् पदार्थानपि साक्षात्करोतीति कथं न सर्वदर्शी स्यात् । क्वचित्कदाचित्सर्वज्ञाभावसाधने साधनवैफल्यं । किं च निषेध्यनास्तित्वाधारं वस्तु गृहीत्वा निषेध्यमन्यत्रान्यदा गृहीतं स्मृत्वा च निषेध्याभावमवैति । न च सर्वज्ञो निषेध्यः कचित्कदाचिकेनचित् दृष्टो येन तं स्मृत्वा नास्तित्वेन जानीयात् । For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy