SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ भट्टानन्तकीर्तिप्रणीता तिषेधो न युक्त इति । युक्तं नैवमतींद्रियज्ञानं कदाचिदस्मद्विलक्षणेषु दृष्टमस्मद्विलक्षणानामेव पुरुषाणामभावात् । सर्वेषामेवास्मत्सदृशत्वात् अस्मादृशेषु दृष्टोऽतिशयो युक्तः सर्वत्र कल्पयितुं अदृष्टोऽपि निषेध्दुमिति चेदस्मद्विलक्षणा न संति पुरुषा इत्येतदसर्वज्ञः कथं जानीयात् । अस्मद्विलक्षणाः संतीत्येतदपि कथमसर्वज्ञो जानातीति चेत्तर्हि संशयोऽस्तु । स च बाधकोपन्यासात्प्रागप्यस्तीति व्यर्थस्तदुपन्यासः । तस्मान्नानुमानविरुध्देयं प्रतिज्ञा । नाप्यभावप्रमाणविरुध्दा । अभावप्रमाणं हि नाम प्रत्यक्षादिप्रमाणपंचकस्यानुत्पत्तिः । साऽपि निषेध्यविषयप्रत्यक्षादिप्रमाणपंचकरूपत्वेनात्मनः परिणामो वा निषेध्यादन्यद्वस्तुनि विज्ञानं वा स्यात् । तथाचोक्तं प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ॥ साऽऽत्मनो परिणामो वा विज्ञानं वाऽऽत्मवस्तुनि १ तत्र न तावत्सर्वज्ञविषयप्रमाणपंचकरूपत्वेनापरिणतात्मनोऽभावाभिधानात्सर्वज्ञाभावसिद्धिः तस्य प्रत्यात्मनियतचेतोवृत्तिविशेषैरनैकांतिकत्वात् । तदन्यज्ञानलक्षणाभावप्रमाणात्तदभावसिद्धिश्चेदत्रापि यदि तावत्सर्वज्ञत्वादन्यत्किचिज्ज्ञत्वं । तदपि कालत्रयत्रिलोकस्थपुरुषाधारं तद्विषयज्ञानं यदि तद. न्यज्ञानं तर्हि तत्कथमसर्वज्ञस्य स्यात् । न हि कालत्रयत्रिलोकस्थपुरुषाणामसाक्षात्करणे तदाधारं किंचिज्ज्ञत्वं प्रत्येतुं शक्यते । अथ कस्यचिदेव पुरुषस्य संबंधि किंचि For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy