________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः तथान्यदप्युक्तंपिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भद्ये ॥
मयि च निमीलितनयने तथापि कांताननं व्यक्तं ॥१॥ तथा स्वप्मज्ञाने चानक्षजेऽपि वैशद्यमुपलभ्यते । तथाहि वक्तारो दृश्यते स्वप्ने मयैतत् दृष्टमिति । तदेवं भावनाजे ज्ञाने स्वप्मज्ञाने वाऽनक्षजेऽपि वैशद्यस्य प्रत्यक्षव्यपदेशस्य च दर्शनात् सर्वज्ञज्ञानेऽप्यनक्षजे सकलदोषावरणविश्लेषाविर्भूतवैशा प्रत्यक्षव्यपदेशश्च संभाव्यत इति न कश्चिद्व्याघातः॥ यदप्युक्तं
येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः ॥ स्तोकस्तोकांतरत्वेन नत्वतींद्रियदर्शनादिति ॥ १॥ अत्रापि यथाभूतानां पुरुषाणामिदानीमत्र च प्रज्ञामेधादिभिः स्तोकस्तोकांतरत्वेनैवातिशयो दृष्टो नत्वतींद्रियदर्शनात् । तथाभूतानामेव देशांतरे कालांतरे च तथाभूतातिशयः कल्पयितुं युक्तो नान्यथाभूतानां । यथाऽस्मत्संदृशानामेव दशहस्तादूर्ध्वमुत्प्लुत्य गच्छतां अनुपलंभाददृश्यानामप्यस्मत्सदृशानामेव दशहस्तादूर्ध्वमुत्प्लुत्य गमनं नास्तीति ज्ञायते । नान्यथाभूतानां काकगृध्रभेरुंडताीशुकपिकप्रकाराणां । तदनेन लंघनदृष्टांतः स्वमतविघातीत्युक्तं भवति । अस्मद्विलक्षणेषु गृध्रादिषु हि दशहस्तादूर्ध्वमुत्प्लवनसामर्थ्यस्य दर्शनात् तत्प्र
For Private And Personal Use Only