________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः
१४९
त्पूर्ववदप्रयोजको हेतुः स्यात् । तथाभूता एव चक्षुरादयस्तथा साध्यते । न च सिद्धसाधनं सर्वचक्षुरादीनामीदृशत्वादिति चेत्कुतस्तदीदृशत्वसिद्धिः । किमनुमानांतरादुतास्मादेवानुमानात् । यद्यनुमानांतरातत्रापि यदि मनागपि विशेषो नास्तीति चक्षुरादीनामीदृशत्वं साध्यते तदाऽनुमानविरुद्धः पक्षैकदेशः गृध्रवराहपिपीलिकादीनां चक्षुः श्रोत्रप्राणादिषु दूरादिखभावरूपशब्दगंधादिग्रहणलक्षणातिशयस्य कार्यतः प्रतिपत्तेः । विषयांतरग्रहणलक्षणातिशयाभावात्तदीदृशत्वप्रसाधनेऽनुमानांतरादेव विषयांतरप्रवृत्त्यभावसिद्धेस्तदेवास्तु किं प्रकृतेनानुमानेन । तथाऽभ्युपगमे हेत्वंतरं नाम निग्रहस्थानं स्यात् । अस्मादेवानुमानात्तदीदृशत्वसिद्धिश्वेदत्रापि यदि मनागपि विशेषो नास्तीति तत्साध्यते तदा पूर्ववदनुमानविरुद्धः पक्षैकदेशः । विषयांतरग्रहणलक्षणातिशयस्याभावात्तदीदृशत्वसाधने विवादास्पदीभूतानां चक्षुरादीनां विषयांतरप्रवृत्त्यभावसिद्धौ सर्वचक्षुरादीनामीदृशत्वसिद्धिस्तत्सिद्धौ च विवादास्पदीभूतानां चक्षुरादीनां विषयांतरे ग्राह्याप्रवृत्त्यभावसिद्धिरिति इतरेतराश्रयः स्यात् । एवं च सर्वचक्षुरादीनामीदृशत्वासिद्धेर्यथाभूतानां चक्षुरादीनां विषयांतरे प्रवृत्त्यभावो दृष्टस्तथाभूतानामेव तथा साधने सिद्धसाधनमिति स्थितं ॥
द्वितीयेऽपि साधने किं यथाभूतानां पुरुषाणां इंद्रियांतरेणाग्राह्या रूपादयो दृष्टा देशांतरकालांतरभाविनामपि
For Private And Personal Use Only