________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
भट्टानन्तकीर्तिप्रणीता संप्रयोगजत्वादिति चेत् नन्वयमस्मान् प्रत्यसिद्धो हेतुः । प्रत्यक्षशब्दवाच्यत्वात्तत्सिद्धिश्चेच्चक्रकप्रसंगः। किंच सर्वप्रत्यक्षाणामीहशत्वसिद्धौ विवादास्पदीभूतस्य प्रत्यक्षस्य सदिद्रियसंप्रयोगजत्वसिद्धिः तत्सिद्धौ च सर्वप्रत्यक्षाणामीदृशत्वासिद्धिः । यथाभूतं प्रत्यक्षं यथाभूतस्यार्थस्य ग्राहक दृष्टं तथाभूतमेव तथाभूतस्यार्थस्य ग्राहकमिति साधने सिद्धसाधनमिति स्थितं । एतेन सत्संप्रयोगे पुरुषस्येंद्रियाणां यद्बुद्धिजन्म तत्प्रत्यक्षं अनिमित्तं विद्यमानोपलंभनत्वादित्येतन्निरस्तं । उक्तेन प्रकारेण सदिंद्रियसंप्रयोगजत्वस्यासिद्धेर्विद्यमानोपलंभनत्वस्याप्यनिश्चयात् । न ह्येवं संदिग्धासिद्धं विद्यमानोपलंभनत्वं धर्म प्रति प्रत्यक्षस्यानिमित्तत्वं साधयतीति । तथा यदप्युक्तं ---
यत्राप्यतिशयो दृष्टः सः स्वार्थानतिलंघनात् ।।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तित इति ॥१॥ एतदपि कुतः प्रमाणादवगतं । विवादास्पदीभूताश्चक्षुरादयो न विषयांतरे वर्तते चक्षुरादिशब्दवाच्यत्वादस्मदादिचक्षुरादिवत् । तथा विवादास्पदीभूता रूपादयो नेंद्रियांतरग्राह्या रूपादिशब्दवाच्यत्वात्परिदृष्टरूपादिवत् इत्येताभ्यामनुमानाभ्यामेतदवगम्यत इति चेदत्रापि किं यथाभूताश्चक्षुरादयो न विषयांतरे प्रवर्तते तथाभूता एव तथा साध्यते अन्यथाभूता वेति । यदि तथाभूतास्तदा सिद्धसाध्यता । अन्यथाभूताश्चे
For Private And Personal Use Only