SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १४७ अवसीयते । देशांतरकालांतरभाविप्रत्यक्षमत्रत्येदानींतनप्रत्यक्षसमानं सदिंद्रियसंप्रयोगजत्वादत्रत्येदानींतनप्रत्यक्षवदित्यतोऽनुमानादवसीयत इति चेत्स्तोकस्तोकांतरत्वेन मनागपि विशेषो नास्तीति, सर्वप्रत्यक्षाणामीदृशत्वं साध्येतातींद्रियार्थविषयत्वेन वा विशेषो नास्तीति ? प्रथमपक्षेऽनैकांतिको हेतुः गृध्रवराहपिपीलिकादीनां प्रत्यक्षेषु स्तोकस्तोकांतरत्वेनास्मदादिप्रत्यक्षविलक्षणेषु सदिद्रियसम्प्रयोगजत्वस्य भावात् । अथातीद्रियार्थविषयत्वेन विशेषाभावात्सर्वप्रत्यक्षाणामीहशत्वं प्रसाध्यते तर्हि तत एव सर्वप्रत्यक्षाणामतींद्रियार्थविषयत्वाभावसिद्धिस्तवास्तु । तथाभ्युपगमे हेत्वंतरं नाम निग्रहस्थानं न स्यात् । यदाऽयमेव हेतुः प्रागुपादीयते तदाऽयमदोष इति चेन्न । तदाऽप्ययमस्मान् प्रत्यसिद्धो हेतुः। विवादास्पदीभूतस्य प्रत्यक्षस्यास्माभिः सदिंद्रियसंप्रयोगजत्वानभ्युपगमात् । विवादास्पदीभूतं प्रत्यक्षं सदिंद्रियसंप्रयोगजं प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवदित्यतोऽनुमानात्तस्य सदिंद्रियसंप्रयोगजत्वं साध्यते इति चेदत्रापि यथाभूतस्य प्रत्यक्षशब्दवाच्यस्य सदिद्रियसंप्रयोगजत्वं दृष्टं तथाभूतस्यैव सदिद्रियसंप्रयोगजत्वं प्रसाध्यतेऽन्यथाभूतस्य वा ? यदि तथाभूतस्य तदा सिद्धसाध्यता । अन्यथाभूतस्य चेत्तर्हि संनिवेशादिवदप्रयोजको हेतुः स्यात् । तथाभूतस्यैव तत्साध्यते, न च सिद्धसाधनं, सर्वप्रत्यक्षाणामीहशत्वादिति चेत्कुतस्तदीदृशत्वसिद्धिः । सदिद्रिय For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy