SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ भट्टानन्तकीर्तिप्रणीता षाभावादीहशत्वं साध्यते तत्रापि यथाभूतानामिदानीमत्र चातींद्रियज्ञानवैकल्यं दृष्टं तथाभूतानामेव देशांतरकालांतरभाविनां पुरुषशब्दवाच्यत्वादतींद्रियज्ञानवैकल्यं साध्येत अन्यथाभूतानां वेत्यादि तदेव पुनरावर्तत इति चक्रकमाद्यते । तदेवं सर्वपुरुषाणामीदृशत्वस्यानीहशत्वाभावस्य चासिद्धेरीहग्भूतानामतींद्रियज्ञानवैकल्यसाधने सिद्धसाधनमिति स्थितं ।। ___ यदप्यन्यदुक्तं- देशांतरे कालांतरे च प्रत्यक्षमत्रत्येदानीतनप्रत्यक्षग्राह्यसजातीयार्थग्राहकं तद्विजातीयार्थग्राहकं वा न भवति प्रत्यक्षशब्दवाच्यत्वादत्रत्येदानींतनप्रत्यक्षवदित्यत्रापि यथाभूतमिंद्रियादिजनितं प्रत्यक्षमिदानीमत्र च यथाभूतस्याविप्रकृष्टस्य ग्राहकं तद्विजातीयस्य विप्रकृष्टस्याग्राहकं वा दृष्टं देशांतरे कालांतरेऽपि तथाभूतमेव प्रत्यक्षं तथाभूतस्यार्थस्य ग्राहकं अन्यथाभूतस्याग्राहकं वेति साध्येत अन्यथाभूतं वा? यदि तथाभूतं तदा सिद्धसाध्यता । अन्यथाभूतं चेत्तथा साध्यते त_प्रयोजको हेतुः स्यात् । यथाभूतं हि प्रत्यक्ष यथाभूतस्यार्थस्य ग्राहकमग्राहकं वा दृष्टं तथाभूतस्यैव प्रत्यक्षस्य तथाविधस्यार्थस्याग्राहकत्वे वा साध्ये प्रत्यक्षशब्दवाच्यत्वस्य प्रयोजकत्वं युक्तं नान्यथाभूतस्य । अत्र संनिवेशादिदृष्टांतः पूर्ववद्रष्टव्यः। तथाभूतमेव प्रत्यक्षं तथा प्रसाध्यते । नच सिद्धसाधनं सर्वप्रत्यक्षाणामीदृशत्वादिति चेत् ईदृशं प्रत्यक्षं नान्यादृशमस्तीत्यर्वाग्भागदर्शिना कुतः For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy