SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः पर्वतादीनां । यद्यन्यथाभूतानामपि पुरुषशब्दवाच्यत्वमतीद्वियज्ञानवैकल्यस्य प्रयोजकं स्यात्तदाऽन्यादृग्भूतानां पर्व - तादीनामपि सन्निवेशादि बुद्धिमत्कारणपूर्वकत्वस्य प्रयोजकं स्यात् । तथाच सर्वस्य ज्ञातुः सिद्धेर्वेदस्याकर्तृकत्वं सर्वज्ञाभावश्च न स्यात् । यथाविधानां पुरुषशब्दवाच्यानामतींद्रियज्ञानवैकल्यं दृष्टं तथाविधानामेवातींद्रियज्ञानवैकल्यं साध्यते । न च सिद्धसाधनं सर्वपुरुषाणामीदृशत्वात् । न अन्यादृशाः संति पुरुषाः । येषामतींद्रियज्ञानस्याप्रतिषेधासिद्धसाध्यता स्यादिति चेदीदृशा एव सर्वपुरुषा नान्यादृशाः संतीत्येतत्कुतोऽवसितमन्यतोऽनुमानादिति चेत्तर्हि तत एवातीद्रियज्ञानवतः पुरुषविशेषस्याभावसिद्धिः । तदेवोच्यतां किमनेन सिद्धोपस्थायिना । अत एवानुमानात्सर्वपुरुषाणामीदृशत्वसिद्धिश्चेत्तर्हि सर्वपुरुषाणामीदृशत्वसिद्धौ अतोऽनुमानात्तथाविधानां सर्वेषामतींद्रियज्ञानप्रतिषेधसिद्धिः ; तत्सिद्धौ च सर्वपुरुषाणामीदृशत्वसिद्धिरितीतरेतराश्रयदोषः स्याच्चक्रकप्रसंगश्च । तथाहि - देशांतरकालांतरभाविनां पुरुषाणामत्रत्येदानींतनपुरुषेभ्यो मनागपि प्रज्ञामेधादिभिर्विशेषो नास्तीति ईदृशत्वं प्रसाध्यते अतींद्रियार्थद्रष्टृत्वेन वा ? प्रथमपक्षेऽनैकांतिका हेतुः । प्रज्ञामेधादिभिः स्तोकस्तोकांतरत्वेन सातिशयेषु कात्यायनादिषु साकल्येन वेदार्थतत्त्वपरिज्ञानवत्सु जैमिन्यादिषु च पुरुषशब्दवाच्यत्वस्याभावात् । अथातींद्रियार्थद्रष्टृत्वेन विशे For Private And Personal Use Only १४५
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy