________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४ भट्टानन्तकीर्तिप्रणीता दिभिर्विशेषो नास्तीति साध्येतातींद्रियार्थद्रष्टुत्वेन वा? प्रथमपक्षेऽनैकांतिको हेतुः । प्रज्ञामेधादिभिः स्तोकस्तोकांतरत्वेन सातिशयेषु कात्यायनादिषु साकल्येन वेदार्थतत्त्वपरिज्ञानातिशयवत्सु जैमिन्यादिषु च पुरुषशब्दवाच्यत्वस्य भावात् । अथातींद्रियार्थद्रष्टुत्वेन विशेषाभावः साध्यते तयनेनैवानुमानेन सर्वज्ञाभावसिद्धिः । सिद्धोपस्थायि प्रकृतमनुमानमपार्थकमिति न किंचित्तेनोपन्यस्तेन । भवत्वस्मादेवानुमानात्सर्वज्ञाभावसिद्धिः का नो हानिः । सर्वथा सर्वज्ञाभावसिध्या नः प्रयोजनमिति चेत्सर्वज्ञाभावे साध्ये प्रकृतस्य हेतोरसामर्थ्याद्धेत्वंतरोपादाने हेत्वंतरं नाम निग्रहस्थानं स्यात् । यदा प्रागयमेव हेतुपारुदीयते तदाऽयमदोष इति चेत्तत्रापि यथाभूतानामिदानीमत्र चानिद्रियज्ञानवैकल्यं दृष्टं तथाभूतानामेव देशांतरकालांतरभाविनां पुरुषशब्दवाच्यत्वादतींद्रियज्ञानवैकल्यं साध्येतान्यथाभूतानां वा? यदि तथाभूतानां तदा सिद्धसाध्यता । अन्यथाभूतानां चेदप्रयोजको हेतुः स्यात् । यथाविधानां हि पुरुषशब्दवाच्यानामतींद्रियज्ञानवैकल्यं दृष्टं तथाविधानामेव पुरुषशब्दवाच्यत्वमतींद्रियज्ञानवैकल्यस्य प्रयोजकं युक्तं नान्यथाभूतानां । यथा याग्भूतानां प्रासादादीनां संनिवेशादि बुद्धिमत्कारणपूर्वकं दृष्टं तादृग्भूतानामेव जीर्णप्रासादादीनां सन्निवेशादि बुद्धिमत्कारणपूर्वकत्वस्य प्रयोजकं नान्यादृग्भूतानां
For Private And Personal Use Only