________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः विरुद्धार्थप्रतिपादकत्वादिति । तत्रापि यत्तावबाधकमनुमानमुपन्यस्तं देशांतरे कालांतरे च रूपादयोऽत्रत्येदानींतनरूपादिग्राहकसजातीयप्रमाणग्राह्या रूपादिशब्दवाच्यत्वादत्रत्येदानींतनरूपादिवदिति । अत्र किं यथाविधानां पुरुषाणां यज्जातीयैः प्रमाणैर्यज्जातीयार्थदर्शनमिदानीमत्र च दृष्टं देशांतरे कालांतरे तथाविधानामेव तज्जातीयैः प्रमाणैस्तज्जातीयार्थदर्शनं प्रसाध्यते अन्यथाभूतानां वा? यदि तथाभूतानां तदा सिद्धसाधनं अस्माभिरपि तथाऽभ्युपगमात् । अयादृशानां हि तथादर्शनं नेष्यते न तथाभूतानां । अथान्यथाभूतानां तथादर्शनं प्रसाध्यते तीनैकांतिको हेतुः स्यात् । अस्मद्विजातीयानां नक्तंचराणामत्रत्येदानींतनास्मदादिरूपग्राहकविजातीयालोकप्रमाणग्राह्येऽपि रूपशब्दवाच्यत्वदर्शनात् । तथाविधानामेव तथादर्शनं प्रसाध्यते । न च सिद्धसाधनं इत्थंभूतत्वात्सर्वपुरुषाणां । न ह्यन्यादृशाः संति पुरुषाः। ततः कथं तथाविधानां तथादर्शनसाधने सिद्धसाधनं स्यादिति चेन्नान्यादृशाः संति पुरुषा इत्येतदसर्वज्ञः कथं जानीयात् । देशांतरे कालांतरे च पुरुषा अत्रत्येदानींतनपुरुषसदृशास्तद्विलक्षणा वा न भवंति पुरुषशब्दवाच्यत्वादत्रत्येदानींतनपुरुषवदित्येतस्मादनुमानादेतदसर्वज्ञेनाप्यवसीयत इति चेद्देशांतरकालांतरभाविनां पुरुषाणामत्रत्येदानींतनपुरुषेभ्यो मनागपि प्रज्ञामेधा
For Private And Personal Use Only