________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
भट्टानन्तकीर्तिप्रणीता यदीयागमसत्यत्वसिद्धौ सर्वज्ञतेष्यते ॥ न सा सर्वज्ञसामान्यसिद्धिमात्रेण लभ्यते ।। ३ ॥ यावबुद्धो न सर्वज्ञस्तावत्तद्वचनं मृषा ॥ यत्र वचन सर्वज्ञे सिद्धे तत्सत्यता कुतः ॥ ४ ॥ अन्यास्मिन्न हि सर्वज्ञे वचसोऽन्यस्य सत्यता ॥
सामानाधिकरण्ये हि तयोरंगांगिता भवेत् ॥ ५॥ तदेवमनेकदोषदुष्टः पक्षो न साधनविषयतां भजते । हेतुश्वासिद्धो नष्टमुष्ट्याद्युपदेशस्यापौरुषेयस्य करणासंभवात् ।। भवतु वा सिद्धस्तथाप्यपक्षधर्मः सूक्ष्माद्यर्थे धर्मिणि नष्टमुष्ट्याधुपदेशकरणाभावादनैकांतिकश्च । यस्मात्सूक्ष्मादिपदार्थसाक्षाकरणमंतरेणाप्यन्वयव्यतिरेकाभ्यां लिंगादनाद्युपदेशपरंपरातो वा नष्टमुष्ट्यादिकमवगम्योपदेष्टुं शक्नोत्येवेति । विरुद्धश्चायं हेतुर्विसंवादकस्य नष्टमुष्ट्याद्युपदेशस्य सूक्ष्मादिपदार्थसाक्षात्करणमंतरेणैव भावात् । योऽपि कचिदस्याविसंवादः स काकतालीयन्यायेन न तदुपदेशबलेनेति मंतव्यं । न चेत्थंभूतोपदेशकरणकस्य सपक्षसंभवोऽस्ति । सर्वज्ञवीतरागस्यान्यथोपदेशकरणासंभवात् । ज्ञानवतो विसंवादे व पुनराश्वासं लभेमहीति सर्वज्ञप्रणीतादप्यागमाद्विप्रलंभाशंकया न प्रवृत्तिः स्यात् । तदेवं साधनमप्यसिद्धविरुद्धानेकांतिकत्वादिदोषदुष्टं नाभिमतसाध्यसाधनायालमित्यत्रोच्यते
यत्तावदुक्तं - असंभवदर्थविषयेयं प्रतिज्ञा प्रमाणांतर
For Private And Personal Use Only