________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः १४१ विज्ञाय च ततः पक्षः साध्यत्वेनेप्सितो भवेत् ।। यस्त्वीप्सिततमं पक्षं विशिंष्यात्तस्य संज्ञया ॥ ४ ।। यावज्ज्ञेयं जगत्सर्वं प्रत्यक्षं सुगतस्य तत् ॥ तैरेव हेतुभिः पूर्वैर्घटकुड्यादिरूपवत् ॥ ५ ॥ तत्र नैवं विशिष्टोऽपि पूर्वस्मादेष भिद्यते ॥
तत्र हेतोरसामर्थ्यादन्यत्राप्यविशेषतः ॥ ६ ॥ न हि विशिष्टपक्षोपादानमात्रेणैव हेतोविशिष्टविषयत्वं लभ्यते ।
स्वशक्त्या हि यदा हेतुर्दृष्टांतानुग्रहेण वा । पक्षांतरेऽपि तुल्यः स्यातदा काऽस्य विशिष्टता ॥१॥ सत्प्रमेयत्वमित्येतद्यतोऽन्येष्वपि वर्तते ।।
साधनं नियमाभावात्तेनाकिंचित्करं हि तदिति ॥२॥ किंच यदि पुरुषसामान्यस्य सूक्ष्मादिविषयं प्रत्यक्षं प्रसाध्यते तदा कथं पुरुषविशेषस्याहेतोर्वचनं प्रमाणं स्यात् यतस्ततो निःश्रेयसार्थिनः प्रवर्तेरन् । अर्हतो हि सर्वज्ञत्वसिद्धौ तद्वचनं प्रमाणं स्यात् न यस्यकस्यचित्प्रमाणत्वसिद्धौ । तथाचोक्तं--
नरः कोऽप्यस्ति सर्वज्ञः स च सर्वज्ञ इत्यपि ॥ साधनं यत्प्रयुज्येत प्रतिज्ञामात्रमेव तत् ॥ १ ॥ सिसाधयिषितो योऽर्थः सोऽनया नाभिधीयते ॥ यस्तूच्यते न तत्सिद्धौ किंचिदस्ति प्रयोजनं ॥२॥
For Private And Personal Use Only